________________
15
भाष्यगाथाः ४१६३-७१] तृतीय उद्देशः ।
११३३ ददाति 'किमुत' किं पुनः ‘पतिपक्षान्' परिभुक्तान् ? इत्यर्थः, तानि सुतरां प्रक्षालनीयानीति भावः । उपलक्षणमिदम् , तेन यद्यपि तानि न गन्धाढ्यानि तथापि धावनीयान्येव, धावित्वा च तानि सप्त दिवसानि स्थापयित्वा स्थविरः प्रावरणं कार्यते । यदि नास्ति कोऽप्यभियोगविकारस्ततो गणधरः 'गणिन्याः' प्रवर्तिन्यास्तानि 'निवेदयेद्' अर्पयेदित्यर्थः । सा च संयतीनां ददाति । अथ गणधरः खयं तासां ददाति ततश्चतुर्गुरु, अस्थाने च शेषसंयतीभिः स्थाप्येत ।। शुद्धभावेनापि हि यदि काचिदार्यिका विशेष्य आलप्यते तथापि काचिदपरा संयती तत्र विरूपकाभिप्रायतया शङ्कां करोति, किं पुनः खयं वस्त्रप्रदाने! ।। ४१६७ ॥ अपि च
इहरह वि ताव मेहा, माणं भंजंति पणइणिजणस्स ।
किं पुण बलाग-सुरचाव-विजुपजोविया संता ॥ ४१६८॥ 'इतरथाऽपि च' बलाका-सुरचापादिविशेषमन्तरेणापि तावद् मेघा गगनमण्डलमापूर्य गर्ज-10 यन्तः 'प्रणयिनीजनस्य' मानवतीलोकस्य मानं भञ्जन्ति, किं पुनः बलाका-सुरचाप-विद्युत्प्रद्योतिताः सन्तः?, एवंविधाः सुतरां मानमुन्मूलयन्ति; एवमियमपि 'अतिप्रौढा समर्था चाहम्' इति कृत्वा अस्माकं मानभङ्गं पुराऽपि करोति, साम्प्रतं तु गुरुभिः स्वयं पूजित-सत्कारिता विशेषतः करिष्यतीति शेषसाव्यश्चिन्तयेयुः ॥ ४१६८॥
दुल्लभवत्थे व सिया, आसण्णणियाण वा वि पिन्बंधे।
पुच्छतऽर्ज थेरा, वत्थपमाणं च वण्णं च ॥४१६९॥ अथ स देशो दुर्लभवस्त्रो भवेत् ततो ये व्यापारितास्तैरपि व लब्धानि वस्त्राणि, अथवा यैः 'निजैः' सज्ञातकैस्ता निमन्त्रितास्ते तासाम् 'आसन्नाः' अतीवप्रत्यासनसम्बन्धास्ततो न तन्निर्बन्धो अप्रमाणीकर्तुं शक्यते, एवमादौ कारणे समुत्पन्ने 'स्थविराः' आचार्याः 'आर्या' प्रवर्तिनी वस्त्रस्य प्रमाणं वर्णं च पृच्छन्ति-कीदृशैर्वस्त्रैयूयं निमनिताः ? किं वा तेषां प्रमा-20 णम् ? ॥ ४१६९ ॥ ततः संयत्यो ब्रुवते
सेयं व सिंधवणं, अहवा मइलं च ततियगं वत्थं ।
तस्सेव होति गहणं, विवजए भाव जाणित्ता ॥ ४१७० ॥ एकं वस्त्रं 'श्वेतं' शरदिन्दु-कुन्दावदातम् , द्वितीयं 'सैन्धववर्ण' पाण्डुरम् , १ अथवाशब्दो वर्णप्रकारान्तरताद्योतकः, - तृतीयं परिमलितत्वाद् मलिनम् , प्रमाणमपि च तस्य वस्त्रस्य 25 ईदृशमस्तीति ताभिरुक्ते गुरुभिस्तत्र गत्वा तस्यैव वस्त्रस्य ग्रहणं कर्तव्यम् । अथ ते गृहस्थास्तत्र गतानामाचार्याणामन्यानि वस्त्राणि दर्शयन्ति तत एवं विपर्यये 'भावं' भद्रक-मान्तगतमभिप्राय ज्ञात्वा ग्रहणं कर्तव्यं न वा ॥ ४१७० ॥ इदमेव स्पष्टयन्नाह
पुव्वगता में पडिच्छह, अम्हे वि य एमु ता तहिं गंतुं ।
गुरुआगमण कधेत्ता, णीणावेंताऽऽगते तम्मि ॥ ४१७१ ॥ 30 सूरयः प्रवर्तिनी भणन्ति-यूयं तत्र पूर्वगताः प्रतीक्षत, बयमपि युष्माकमनुमार्गत एकागच्छामः । ततस्ताः संयत्यः 'तत्र' गृहस्थकुले गत्वा गुरूणामागमनं कथयन्ति । ततः तस्मिन्'
१ धावयित्वा त• डे० ॥ २ ॥ एतन्मध्यगतः पाठः भा० नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org