________________
११३२
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निश्राप्रकृते सूत्रम् १२ साकारकृतं कृत्वा प्रमाण-वर्णाभ्यां चित्रं न कुर्वन्ति मासगुरु । यदि गणिन्या अग्रे एतरम प्रमाणादि न कथयन्ति ततश्चतुर्लघवः । अथात्मनिश्रया स्वयमेव गृहन्ति चतुर्गुरवः ॥४१६१ ॥ ४१६२ ॥ अथ गृहस्था एवं ब्रूयुः
जह मे रोयति गिण्हध, ण वयं गणिणि गुरुं व जाणामो। इय वि भणिया वि गणिणो, कधेति ण य तं पडिच्छंति ॥ ४१६३ ॥ यदि "भे" भवतीनां रोचते ततो गृह्णीध्वमेतद् वस्त्रम् , न वयं गणिनी' प्रवर्तिनीं 'गुरुं वा' आचार्य जानीमः, इत्यपि भणिताः संयत्यः 'गणिनः' सूरेः कथयन्ति, न पुन 'तद्' वस्त्रं प्रतीच्छन्ति ॥ ४१६३ ॥ सूरिभिश्च संयतीमुखाद् वववृत्तान्तं श्रुत्वा इत्थं वक्तव्यम्
कतरो मे णत्थुवधी, जो दिजउ भणह मा विसूरित्था । 10 . पुषुप्पण्णो दिजति, तस्सऽसतीए इमा जयणा ॥ ४१६४ ॥ _ 'भणत' प्रतिपादयत वर्षाकल्पा-ऽन्तरकल्पादीनां मध्यात् कतरः “भे" भवतीनां नास्त्युपधिः
यः साम्प्रतं दीयताम् , मा यूयमुपधिना विना "विसूरयथ' खेदमुद्रहथ, इत्युक्ते यस्योपधेरभावस्तं निवेदयन्ति । स यदि पूर्वोत्पन्नो वर्तते ततो दीयते । अथ पूर्वोत्पन्नो नास्ति ततस्तस्याभावे इयं यतना ॥ ११६४ ॥
नाऊण या परीत्तं, वावारे तत्थ लद्धिसंपण्णे । ___ गंधड्ढे परिभुत्ते, कप्पकते दाण गहणं वा ॥ ४१६५ ॥ "परीतं" स्तोकम् , अभावोपलक्षणं चेदम् , ततोऽयमर्थः-परीतं नाम न सन्ति संयतीनां वस्त्राणि इति ज्ञात्वा ये तत्र लब्धिसम्पन्नाः साधवस्तान् व्यापारयेत् , यथा-आर्याः ! संयतीनां प्रायोम्याणि वस्त्राणि गवेषयत । ततस्ते वस्त्राणि गृहीत्वा गुरूणां समर्पयन्ति, तानि 90 च गन्धाढ्यानि परिभुक्तानि वा भवेयुः ततः कल्पे कृते सति दानं ग्रहणं वा कर्तव्यम् । किमुक्तं भवति?-तानि वस्त्राणि प्रक्षाल्य सप्त दिवसानि स्थापयित्वा यदि नास्ति कोऽपि विकारस्ततो गणधरेण प्रवर्तिन्या दातव्यानि । प्रवर्तिनीहस्ताच्च संयतीभिर्ग्रहीतव्यानि इति सहगाथासमासार्थः ॥ ४१६५ ॥ साम्प्रतमेनामेव विवृणोति
गुरुस्स आणाएँ गवेसिऊणं, वावारिता ते अहछंदिया वा। 25 दुधापमाणेण जहोदियाई, गुरूण पाएसु णिवेदयंति ॥ ४१६६ ॥ __ ये 'व्यापारिताः' गुरुभिर्वस्त्रग्रहणाय प्रवर्तिताः, ये वा 'यथाच्छन्दिकाः' अव्यापारिता एव गुरूणां पुरतो भणन्ति-वयं वस्त्राणि गवेषयिष्यामः, आभिग्रहिका इति भावः; ते द्वयेऽपि
गुरोराज्ञया वस्त्राणि 'द्विधाप्रमाणेन' गणनाप्रमाणेन प्रमाणप्रमाणेन च यथा भगवद्भिस्तीर्थकरैः __ 'उदितानि' भणितानि तथा गवेषयित्वा गुरूणां 'पादयोः' पुरतस्तानि 'निवेदयन्ति' निक्षि30 पन्तीत्यर्थः ॥ ४१६६ ॥ ततश्च
गंधह अपरिभुत्ते, वि घोविउ देति किमुअ पडिपक्खे ।
गणिणीऍ णिवेदेजा, चतुगुरु सय दाण अट्ठाणे ॥ ४१६७ ॥ यानि गन्धाव्यानि तानि यद्यपि अपरिभुक्तानि तथापि 'धावित्वा' प्रक्षाल्य संयतीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org