________________
भाष्यगाथाः ४१५२-६२] तृतीय उद्देशः।
११३१ शानि ईदृशानि वस्त्राणि गृहीत्वा समागमिष्यामि; यद्वा खयमानीतानि वस्त्राणि दर्शयन्ती ब्रूयात्-"उयह" पश्यत मदीयानि वस्त्राणि इति । तत इतराः संयत्यो मत्सरिता बुवतेधिगस्तु भवदीयानि वस्त्राणि भवतीं च यदेवमात्मानं विकत्थयसि; अपि च यथा यूयं खच्छन्दाः पर्यटथ न तथा वयं हिण्डामः, नैव च स्वयं गृहीमः, न वाऽऽत्मानं 'प्रवदामः' प्रकर्षेण श्लाघामहे, न च यत् कुण्टलादिकं कर्म कर्तुं युष्मादृशो जनो जानाति तद् वयं कर्तुं । जानीमः ॥ ४१५६ ॥ ४१५७ ॥
जम्हा य एवमादी, दोसा तासिं तु गिण्हमाणीणं ।
तम्हा तासि णिसिद्धं, वत्थग्गहणं अणीसाए ॥ ४१५८ ॥ यस्मादेवमादयो दोषास्तासां गृह्णतीनां भवन्ति तस्मात् तासामनिश्रया वस्त्रग्रहणं निषिद्धम् ॥ ४१५८ ॥ परः प्राह
10 सुत्तं णिरत्थगं खलु, कारणियं तं च कारणमिणं तु ।
असती पाउग्गे वा, मनक्खो वा इमा जतणा ॥ ४१५९ ॥ . . यदि संयतीनामनिश्रया वस्त्रग्रहणं न कल्पते ततः सूत्रं निरर्थकं प्राप्नोति । सूरिराहकारणिकं सूत्रम् । तच्च कारणमिदम्-न सन्ति संयतीनां वस्त्राणि, सन्ति वा परं न प्रायोग्याणि, "मन्नक्खो वा" महद् दौर्मनस्यं संज्ञातकादीनां संयतीभिर्वस्त्रेऽगृह्यमाणे भवति तत्रेयं 16 यतना ॥ ४१५९ ॥ तामेवाभिधित्सुराह
तरुणीण य पन्चजा, णियएहिँ णिमंतणा य वत्थेहि ।
पडिसेहण णिबंधे, लक्खण गुरुणो णिवेदेजा ॥ ४१६० ॥ कस्याप्याचार्यस्य पार्श्वे महर्द्धिकानां बहुजनपाक्षिकाणां तरुणीनां प्रव्रज्या समजनि, ताश्च कियन्तमपि कालमन्यस्मिन् देशे विहृत्य सूरिभिः सार्धं तत्रैव समायाताः, ततः 'निजकैः' 20 सज्ञातकैस्तासां वस्त्रैनिमन्त्रणा कृता, ततः 'न कल्पते अस्माकं । वस्त्रग्रहणं कर्तुम्' इति प्रतिषेधः कर्तव्यः । अथ गाढतरं निर्बन्धं कुर्वन्ति तत इदं वक्तव्यम्-अस्माकं गुरव एव वस्त्रस्य लक्षणं जानते ततो गुरूणां निवेदयाम ईति, अनुज्ञाते तेषां निवेदयेयुः ॥ ४१६० ।। इदमेव व्याख्यातिथेरा परिच्छंति कधेमु तेसिं, णाहति ते दिस्स अजोग्ग जोग्गं।
25 पिच्छामु ता तस्स पमाण-वण्णे, तो णं कधेस्सामों तहा गुरूणं ॥४१६१ ॥
सागारऽकडे लहुगो, गुरुगो पुण होति चिंधकरणम्मि ।
गणिणीअसिढे लहुगा, गुरुगा पुण आयनीसाए ॥ ४१६२ ॥ 'स्थविराः' आचार्या अस्मत्प्रायोग्यं वस्त्रं परीक्षन्ते अतः कथयामस्तेषाम् , ज्ञास्यन्ति ते दृष्दैव वस्त्रमयोग्यं योग्यं वा, परं वयं तावदिदानीं तस्य वस्त्रस्य प्रमाणं वर्णं च पश्यामः, ततः 30 "ण"मिति तद् वस्त्रं 'तथा' तेन प्रमाण-वर्णादिना प्रकारेण गुरूणां कथयिष्यामः; एवं यद् वस्त्रं साकारत्वेन व्यवस्थापितं तत् साकारकृतम् । तच्च यदि न कुर्वन्ति ततो मासलधु । .११ एतदन्तर्गतः पाठः भा० नास्ति ॥ २ इत्युक्त्वा तेषां नाटी भा० का ० . '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org