SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निश्राप्रकृते सूत्रम् १२ कथयति, स चागत्य खयं गृह्णाति । एतन्निश्राग्रहणमुच्यते ॥ ११५१ ।। आयरिओ गणिणीए, पवत्तिणी भिक्खुणीण ण कधेति । गुरुगा लहुगा लहुगो, तासि अप्पडिसुणंतीणं ॥ ४१५२ ॥ आचार्य एतत् सूत्रं गणिन्या न कथयति चत्वारो गुरवः । प्रवर्तिनी भिक्षुणीनां न कथ5 यति चत्वारो लघवः । 'तासां' भिक्षुणीनामप्रतिशृण्वतीनां मासलघु ॥ ४१५२ ॥ __ अथ खयं वस्त्रग्रहणे दोषानाह मिच्छत्ते संकादी, विराहणा लोभे आभियोगे य । तुच्छा ण सहति गारव, भंडण अट्ठाणठवणं च ॥ ४१५३ ॥ पुरुषेण संयत्याः वस्त्रं दीयमानं दृष्ट्वा अभिनवधर्माणो मिथ्यात्वं गच्छेयुः 'दुर्दृष्टधर्माणोऽमी' 10 इति । शङ्कादयश्च दोषा भवन्ति । 'विराधना च' संयमा-ऽऽत्मविषया । "लोभे" ति स्तोकेनापि वस्त्रादिप्रदानेन स्त्री प्रलोभ्यते । “आभियोगे" ति आभियोगिकवस्त्रप्रदानेन कश्चित् कार्मणं कुर्यात् । स्त्री च प्रायेण तुच्छा भवति, तुच्छत्वेन च 'गौरवं' लब्धिमाहात्म्य न सहते, ततश्च 'भण्डनं' कलहो अस्थानस्थापनं च भवतीति सङ्घहगाथासमासार्थः ॥४१५३॥ अथैनामेव विवरीषुराह _इत्थी वि ताव देंती, संकिजइ किं णु केणति पयुत्ता। किं पुण पुरिसो देंतो, परिजुण्णाई पि जुण्णाए ॥ ४१५४ ॥ 'स्त्री' अविरतिका साऽपि वस्त्रं संयत्याः प्रयच्छन्ती शक्यते-किं केनचित् कामुकेन प्रयुक्ता सती प्रयच्छति ? उत स्वयमेव धर्मार्थम् ? इति; किं पुनः पुरुषः परिजीर्णान्यपि वस्त्राणि जीर्णाया अपि आर्यिकायाः प्रयच्छन् ? स सुतरां शक्यते इति भावः । तत्र शङ्कायां 20 चतुर्गुरु । चतुर्थार्थमेवेति निःशङ्किते मूलम् । एवं मिथ्यात्वं शङ्कादयश्च दोषा भवेयुः । विराधना च संयमा-ऽऽत्मविषया अभ्युह्य वक्तव्या ॥४१५४॥ लोभद्वारमभियोगद्वारं चाह नामिजइ थोवेणं, जचसुवणं व सारणी वा वि। अभियोगियवत्थेण व, कड्डिजइ पट्टए नातं ॥ ४१५५ ॥ यथा जात्यं सुवर्ण 'सारणी वा' कुल्या स्तोकेनापि प्रयत्नेन नाम्यते तथा संयत्यपि स्तोके25 नापि वस्त्रादिप्रदानेन नाम्यते । यद्वा तद् वस्त्रं केनापि विद्या-मन्त्रादिबलेनाभियोगिकं-वशी करणकर्मक्षमं कृतमस्ति ततस्तेन सा 'कृष्यते' येन कार्मणं कृतं तदभिमुखं नीयते । पट्टकेन चात्र 'ज्ञात' दृष्टान्तो भवति, स च यथा प्रथमोदेशके (गाथा २८१९)॥ ४१५२ ॥ अथ गौरवादिद्वारत्रयं युगपदाह वत्थेहि वच्चमाणी, दाएंती वा वि उयध वत्थे मे । मच्छरियाओ बेंती, धिरत्थु वत्थाण तो तुझं ॥ ४१५६ ॥ हिंडामो सच्छंदा, णेव सयं गेहिमो य पवयामो । ण य जं जणो वियाणति, कम्मं जाणामों तं काउं ॥ ४१५७ ॥ काचिदार्यिका तुच्छतयः गौरवमसहिष्णुवस्त्रेभ्यो वजन्ती आत्मानं म्यापयति-अहमी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy