________________
10
भाष्यगाथाः ४१४७-५१] तृतीय उद्देशः ।
११२९ 'नियमाद' अवश्यन्तया 'स्त्री' निर्ग्रन्थी सचेला भवति । यतः 'तेन चेलेन विना सा संयमात् चाल्यते इत्यनन्तरसूत्रे उक्तम् । तेन कारणेनावग्रहानन्तकादीनां चेलानां ग्रहणे विधिरभिधीयते । अयं 'योगः' प्रकृतसूत्रस्य सम्बन्धः ॥ ४१४८ ॥ अथवा
चेलेहि विणा दोसं, गाउंमा ताणि अप्पणा गेण्हे ।
तत्थ वि ते च्चिय दोसा, तव्वारणकारणा सुत्तं ॥४१४९ ॥ चेलैविना भिक्षामटन्त्याः संयत्या महान् दोषो भवतीति ज्ञात्वा मा 'तानि' चेलान्यात्मना गृह्णीयात् । कुतः ? इत्याह-तत्रापि' - आत्मना चेलग्रहणेऽपि त एव दोषा भवन्ति ये पूर्व चेलस्याग्रहणे प्रोक्ताः । अतः 'तद्वारणकारणात्' स्वयग्रहणप्रतिषेधार्थमिदं सूत्रमारभ्यते॥४१४९॥ इदमेव सोपपत्तिकमाहसयगहणं पडिसेहति, चेलग्गहणं ण सव्यसो तासि ।
10 संडास तिरो वण्ही, ण डहति कुरुए य किच्चाई ॥ ४१५०॥ स्वयग्रहणमत्र सूत्रे सूत्रकृत् प्रतिषेधयति, न पुनः सर्वथा 'तासां' संयतीनां चेलग्रहणम् । यतः सन्दंशकेन तिरोहितो वह्निर्गृह्यमाणो न दहति 'कृत्यानि च धान्यपाकादीनि कार्याणि कुरुते; एवं संयतीनामपि साधुभिस्तिरोहितं चेलग्रहणं न दुष्यति, कार्य च संयमपालनात्मकं करोति । अंत इदमारभ्यते ॥ ४१५० ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थ्या गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टायाश्चेलेनार्थः- प्रयोजनं चेलार्थः । स समुत्पद्येत । नो "से" तस्याः कल्पते आत्मनो निश्रया चेलं प्रतिग्रहीतुम् , किन्तु कल्पते "से" तस्याः प्रवर्तिनीनिश्रया चेलं प्रतिग्रहीतुम् । अथ न तत्र प्रवर्तिनी "सामाणा" सन्निहिता ततो यस्तत्राचार्यों वा उपाध्यायो वा प्रवर्ती वा स्थविरो वा गणी वा गणधरो वा गणावच्छेदको वा सन्निहितो भवेत् । 'गणी' गणाधिपतिरा-20 चार्यः, गणधरः' संयतीपरिवर्तकः, शेषाः सर्वेऽपि प्रतीताः । एतेषां निश्रया यं वा 'अन्य' गीतार्थ साधु पुरतः कृत्वा विहरति तन्निश्रया कल्पते "से" तस्याश्चेलं प्रतिग्रहीतुमिति सूत्रसलेपार्थः ॥ अथ विस्तरार्थ भाष्यकारो बिभणिषुराह
चेलट्टे पुव्व भणिते, पडिसेहो कारणे जहा गहणं ।
णवरं पुण णाणत्तं, णीसागहणं ण उ अणीसा ॥ ४१५१॥ 2 चेलार्थः 'पूर्व प्रथमोद्देशके "णिग्गंथिं च णं केइ वत्थेण वा पाएण वा निमंतिज्जा" (सू० ३९) इत्यादिसूत्रे यथा भणितः, यथा च तत्र संयतीनां खयं वस्त्रग्रहणप्रतिषेधः, यथा च कारणे ग्रहणमुक्तं तथैवात्रापि वक्तव्यम् । 'नवरं' केवलं पुनरत्र 'नानात्वं' विशेषो वस्त्रग्रहणं ताभिर्निश्रया कर्तव्यम् न पुनरनिश्रया । निश्रा नाम-संज्ञातकादिना वस्त्रं दीयमानं प्रवर्तिन्या निवेदयति, प्रवर्तिनी गणधरस्य निवेदयति, ततो गणधरः खयमागत्य परीक्षाशुद्धं कृत्वा 30 गृह्णाति । अथ नास्ति तत्र प्रवर्तिनी ततस्तद् वस्त्रं वर्णेन रूपेण चिह्वेन चोपलक्ष्य गणधरस्य
१-२ » एतदन्तर्गतः पाठः भा० नास्ति ॥ ३°रः कृ° भा० विना ॥ ४ “णिज्जुत्ती वित्थारेति-- चेलटे. गाहा ॥” इति वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org