________________
भाष्यगाथाः ४१३६-४६ ] तृतीय उद्देशः ।
सं असती, सण्णायग - णालबद्ध किट फासुं । अण्णो वि जो परिणतो, स सिद्धवेसेतरीऽगारी ॥ ४१४१ ॥
'एतेषां' संज्ञिप्रभृतीनामभावे ये तस्याः संयत्याः संज्ञातकास्तेषां गृहेषु स्थाप्यते । [ संज्ञातकगृहाणाम् ] अभावे यः संयतो नालबद्धः सोऽपि यदि किढः - वृद्धस्तदाऽसौ श्राद्धवेषं कार्यते, इतराऽपि गृहिलिङ्गं करोति, ततस्तौ प्राशुकाहारेण यापयन्तौ तिष्ठतः । नालबद्धस्याभावे अन्योऽपि यो वयसा परिणतः स सिद्धपुत्रवेषं कार्यते, इतरा अगारीवेषं करोति ॥ ४१४१ ॥ अत्रेयं प्रायश्चित्तमार्गणा
मूलं वा जाव था, छेदो छग्गुरुग जं च धालहुअं ।
बितिपदे असती, उवस्सए वा अहव जुण्णा ।। ४१४२ ।।
यदि तया प्रतिसेव्यमानया खादितं ततो मूलम् । वाशब्द उत्तरापेक्षया विकल्पार्थः । 10 "जाव थण" ति पश्चाद् व्याख्यास्यते । गर्भमाहूतं दृष्ट्वा स्वादयति च्छेदः । अपत्यं जातं दृष्ट्वा 'सहायकं मे भविष्यति' इति खादयन्त्याः षङ्गुरवः । यया तु न खादितं तस्याः परप्रत्ययनिमित्तं यत् किमपि यथालघु प्रायश्चित्तं दातुं युज्यते तद् दातव्यम् । " जाव थण" ति यावत् तस्या अपत्यं स्तन्यपानोपजीवि भवति तावत् तपोर्हं प्रायश्चित्तं न दातव्यम् । द्वितीयपदे अवग्रहानन्तकस्याभावे उपाश्रये वा तिष्ठन्ती अथवा 'जीर्णा' स्थविरा सा संयती अतोऽवमहानन्तकं न 15 गृह्णात्यपि ॥ ४१४२ ॥ अथास्या एव पूर्वार्धं व्याख्याति -
सेवितें अणुमए, मूलं छेओ तु डिंडिमं दिस्स ।
होहिति सहातगं मे, जातं दडूण छग्गुरुगा ॥ ४१४३ ॥
सेव्यमानया यद्यनुमतं ततो मूलम् । अथ 'डिण्डिम' गर्भं दृष्ट्वा हर्षमुद्रहति छेदः । पुत्रदृष्ट्वा 'सहायकं मे भविष्यति' इत्यनुमन्यते षड्गुरवः || ४१४३ ॥
११२७
तेण परं चउगुरुगा, छम्मासा जी ण ताव पूरिति ।
जा तु तवारिह सोही, अणवत्थणिते ण तं देती ॥ ४१४४ ॥ ' ततः परं ' जन्मानन्तरं यावत् षण्मासा न पूर्यन्ते तावद् यत्र यत्र खादयति तत्र तत्र चतुर्गुरवः । या च तस्याः तपोर्हा शोधिरुक्ता ताम् 'अनपस्तनिते' स्तन्यपानादनुपरते अपत्यभाण्डेन ददति, मा स्तन्यं न भविष्यतीति कृत्वा ॥ ४१४४ ॥
मेहुणे गमे आहितेय सातिज्जियं जति ण तीए ।
परपच्चया लहुसगं, तहा वि से दिति पच्छित्तं ॥ ४१४५ ॥
Jain Education International
मैथुने प्रतिसेव्यमाने गर्भे च आहूते यद्यपि तया न खादितं तथापि 'परप्रत्ययार्थ' मा भूदगीतार्थानामप्रत्यय इत्यर्थः यथालघुकं प्रायश्चित्तं तस्याः सूरयः प्रयच्छन्ति ॥ ४१४५ ॥ अथ यस्तस्याः खिंसां करोति तस्य प्रायश्चित्तमाह
खिंसाऍ होंति गुरुगा, लज्जा णिच्छकतो य गमणादी । दष्पकते वाऽऽउड्डे, जति खिसति तत् वि तहेव ।। ४१४६ ।।
१ जाव ताण पू° तामा० ॥ २ यावत् तस्याः ताटी० भा० क० विना ॥
For Private & Personal Use Only:
20
25
.30
www.jainelibrary.org