________________
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहा० प्रकृते सूत्रम् ११
को जाति अण्णस्स वि, हवेज तं सारवेमो णं ॥ ४१३६ ॥ खुरवधारणे, ‘दुरतिक्रममेव' प्रतिकर्तुमशक्यमेव, केनाप्यनार्येणेदमकार्यं विहितम् अतः किं क्रियते ?, अपि च 'अकामा' अनिच्छन्ती बलादेव तेन पापात्मना तपखिनी गृहीता, ततः को जानाति अन्यस्या अप्येवंविधो वृत्तान्तः परवशतया भवेत्, तदेनां सम्प्रति 'सार6 यामः ' परिपालयाम इत्यर्थः ॥ ४१३६ ॥
११२६
'हुं हुं विध्वस्तशीलेयम्' इत्येवमस्याः 'अवर्णम्' अवज्ञां वा मा कार्षुः, किं न श्रुतं भवद्भिः केशि- सत्यकिनोर्जन्म ? यथा— तौ आर्यिकाभ्यां पुरुषसंवासमन्तरेणापि कथञ्चिदुपात्त10 बीजपुद्गलाभ्यां प्रसुषुवाते, न च ' तयोः ' आर्यिकयोर्व्रतभङ्गः सञ्जातः, विशुद्धपरिणामत्वात् । अनयोः कथानके यथाक्रमं पश्च कल्पा - SSवश्यकटीकाभ्यामवसातव्ये ॥ ४१३७ ॥
30
माय अवणं काहिह, किं ण सुतं केसि सचईणं भे ।
जम्मं ण य वयभंगो, संजातो तासि अजाणं ॥ ४१३७ ॥
अवि य हु इमेहिँ पंचाहिँ, ठाणेहिं थी असंवसंती वि । पुरिसेण लभति गन्धं, लोएण वि गाइयं एयं ॥ ४१३८ ।।
अपि चेत्यभ्युच्चये, 'हुः' निश्चितमेतत् -- एतैः पञ्चभिः स्थानैः स्त्री पुरुषेण सममसंवसन्त्यपि 16 गर्भं लभते । न केवलमस्माभिरेवैतदुच्यते किन्तु लोकेनापि 'गीतं ' संशब्दितमेतत् ॥ ४१३८ ॥
15
तान्येवोपदर्शयति
दुव्त्रियड- दुण्णिसण्णा, सयं परो वा सि पोग्गले छुभति । वत्थे वा संसट्ठे, दगआयमणेण वा पविसे ।। ४१३९ ॥
विवृता- अनावृता, सा चोत्तरीयापेक्षयाऽपि स्याद् अतो दुःशब्देन विशेष्यते - दुष्ठु 20 विवृता दुर्विवृता - परिधानवर्जितेत्यर्थः, एवं दुर्विवृता सती दुर्निषण्णा - दुष्ठु - विरूपतयोपविष्टा दुर्विवृत- दुर्निषण्णा सा शुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान् आसन्नस्थान् सङ्गृहीयात् १, स्वयं वा पुत्रार्थितया शीलरक्षकतया च शुक्रपुद्गलान् योनावनुप्रवेशयेत् २, 'परो वा' श्वश्रूप्रभृतिकः पुत्रार्थमेव "से" तस्या योनौ प्रक्षिपेत् ३, वस्त्रं वा शुक्रपुद्गलसंसृष्टम् उपलक्षणत्वात् तथाविधमन्यदपि केशिमातुः केशवत् कण्डूयनार्थं रक्तनिरोधार्थं वा तया प्रयुक्तं तद् अनुप्रवि26 शेत्, अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत् ४, दकं - पानीयं तेन वा तस्या आचमन्त्याः पूर्वपतिता उदकमध्यवर्तिनः शुक्रपुद्गला अनुप्रविशेयुः ५ । एवं पुरुषसंवासमन्तरेणापि गर्भसम्भवे भवन्तो नास्या अवज्ञां कर्तुमर्हन्ति । एवं प्रज्ञाप्य तेषां श्राद्धानां तां स्थापयन्ति ॥ ४१३९ ॥ गता ज्ञातविषया यतना । अथाज्ञातविषयां तामाहअविदिय जण गन्भम्मि य, सण्णीमादीसु तत्थ वऽण्णत्था । लादेंति फासुएणं, लिंगविवेगो य जा पिबति ॥ ४१४० ॥ जनेनाविदितो यो गर्भस्तत्र ये माता- पितृसमानाः संज्ञिनः आदिशब्दाद् यथाभद्रका वा तेषां गृहेषु तत्र वा अन्यत्र वा ग्रामे स्थापयन्ति । ते च संज्ञिप्रभृतयस्तां प्राशुकेन प्रत्यवतारेण 'लाढयन्ति' यापयन्तीत्यर्थः । यावच्चापत्यभाण्डं स्तन्यं पिवति तावत् तया लिङ्गविवेकः कर्तव्यः ॥ ४१४० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org