SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४१२७-३५ ] तृतीय उद्देशः । ११२५ येन सा धर्षितुमारब्धा स लोकेन वा धिक्कारपुरस्सरं वारितः, स्वयं वा 'तां' संयतीं 'सुनेपथ्य' सुप्रावृतां हा सुदृष्टममीयां धर्मरहस्यम्' इति कृत्वोपशान्तः सन् सविस्मयः पश्चात् तां संयतीं क्षामयति ॥ ४१३१ ॥ णाभोग पमादेण व, असती पट्टस्स णिग्गया गहणे । विहिणिग्गतमाहच्च व, बाहाडितधाडणे गुरुगा ॥ ४१३२ ॥ सा कदाचिद् 'अनाभोगेन' अत्यन्त विस्मृत्या 'प्रमादेन वा' विकथा - निद्रादिप्रमत्ततया अवग्रहपट्टस्य वा अभावे एवमेव भिक्षार्थं निर्गता, एवम विधिनिर्गता केन चिद् धर्षिता, - विधिनिर्गता बा "आहच्च" कदाचित् प्रच्छन्नेऽवकाशे गृहीता ततो गुरूणां यतनया निवेदनीयम् । अथ सा कदाचिद् बाहाडिता ततो यस्तां घाटयति-निष्काशयतीत्यर्थः तस्य चतुर्गुरुकाः ॥ ४१३२ ॥ कुतः ? इत्याह निजूढ पट्ठा सा, इ एतेहि चैत्र कतमेतं । राय - गिहीहि सयं वा तं च पसासंति मा बितियं ॥ ४१३३ ॥ सा 'निर्यूढा' निष्काशिता सती साधूनामुपरि प्रद्वेषं यायात्, प्रद्विष्टा च भणति — एतैरेव श्रमणैरित्थं ममैतत् कृतमिति, ततो न परित्यक्तव्या । येन च धर्षिता तमनवस्थाप्रसङ्गवारणार्थ राज्ञा प्रशासयन्ति, गृहिभिर्वा शिक्षयन्ति । यदि प्रभवस्ततः स्वयमपि शासन्ते, ' मा द्वितीयं 15 वारमित्थं प्रवर्त्ततामयम्' इति कृत्वा ॥ ४१३३ ॥ अथ तस्याः सारण विधिमाहदुविहाणायमणाया, अगीय अण्णाय सणिमादीसु । सम्भावे सिं कहिते, सारिंती जा थणं पियती ॥ ४१३४ ॥ या बाहाडिता सा. द्विविधा - ज्ञाता अज्ञाता च, ज्ञातगर्भा अज्ञातगर्भा चेत्यर्थः । तत्र या अज्ञाता सा अगीतार्था यथा न जानन्ति तथा संज्ञी - श्रावकस्तदादिकुलेषु स्थाप्यते, तेषां संज्ञि - 20 प्रभृतीनां सद्भावः प्रथममेव कथयितव्यः कथिते च सद्भावे ते माता- पितृसमानतया तां तावत् 'सारयन्ति' प्राशुकेन प्रत्यवतारेण पालयन्ति यावत् तदीयं कल्पस्थभाण्डं स्तन्यं पिबति, स्तन्यपानान्न निवर्त्तत इत्यर्थः ॥ ४१३४ ॥ " जत्थ उ जणेण णातं, उवस्सए चैव तत्थ ण य भिक्खं । किं सक्का छड्डेउं, बेंति अगीते असति सङ्के ॥ ४१३५ ।। यत्र तु जनेन ज्ञातम् यथा -- एषा बाहाडिता, तत्रोपाश्रय एव स्थाप्यते, न श्रावकादिकुलेषु । न च सा भिक्षां हिण्डापयितव्या, किन्तु शेषसाध्वीभिः साधुभिर्वा तस्याः प्रायोग्यं भक्त पानमानीय दातव्यम् । यद्यगीतार्थ भणन्ति - किमेवमीदृश्याः सङ्ग्रहः क्रियते ? ; ततः सूरयो ब्रुवते - यदि नाम न सङ्गृह्यते ततः कथयत किं साम्प्रतमेषा शक्या परित्यक्तुम् ? । अथैवं प्रज्ञापिता अपि ते न प्रतिपद्यन्ते ततः श्राद्धान् प्रज्ञापयन्ति ॥ ४१३५ ॥ यथा— 30 दुरतिकमं खु विधियं, अवि य अकामा तवस्सिणी गहिता । १ दृष्टोऽमीषां धर्मः' इति भा० ॥ २ ३ निच्छूढ मो० ताटी० ॥ ४ भणिज एते तामा० ॥ एतच्चिह्नान्तर्गतः पाठः भा० कां० एव वर्तते । Jain Education International 5 10 For Private & Personal Use Only 25 www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy