________________
११२४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहा०प्रकृते सूत्रम् ११ जाता, 'न शक्यन्ते अमूरेवंविधेन वेषेण छलयितुम्' इति कृत्वा । कथं पुनरेतत् संवृत्तम् ? इत्याह--."उज्झसु चीरे" इत्यादि, विधिनिर्गता संयती मिण्टेनाभिहिता---'उज्झ' परित्यज चीवराणि । साऽप्येवम भिहिता 'नृपपथे' राजमार्ग यानि यथावहिरुपकरणानि तानि तथा मुञ्चति । एवं बहुषु वस्त्रेषु मुक्तेप्वपि यदा सा नटीवत् 'कूर्पासकादिभिः' कञ्चुकादिभिर्वस्त्रैः । 'उच्चरिता' सुप्रावृता दृश्यते तदा लोकेन स मिण्ठो धिग्धिकृतश्च हाहाकृतश्च तथा 'तर्जितः' गाढं निर्भर्सितः । ततश्च 'अवलोकनस्थितेन' गवाक्षोपविष्टेन राजसिंहेनासौ निवारितः । 'सर्वज्ञदृष्टश्चायं धर्मः' इति कृत्वा साधूनां समीपे भगिनी प्रवज्याग्रहणार्थ विसर्जितेति ॥ ४१२३ ।। ४१२४ ॥ ४१२५ ॥ ४१२६ ॥
उक्तो मुरुण्ड जड्डदृष्टान्तः । अथ नर्तकी-लङ्खिकादृष्टान्तद्वयमाह10
पाए वि उक्खिवंती, न लज्जती पट्टिया सुणेवत्था ।
उच्छृरिया व रंगम्मि लंखिया उप्पयंती वि ॥ ४१२७ ॥ यथा नर्तकी सुनेपथ्या सती पादावप्युरिक्षपन्ती न लज्जते, ललिका वा रङ्गभूमौ 'उत्पतत्यपि' करणशतान्यपि कुर्वती यथा 'उच्छूरिता' सुप्रावृता सती न लज्जते, एवं संयत्यपि सुप्रावृता न लज्जत इत्युपनयः ॥ ४१२७ ॥ अथ कदलीस्तम्भदृष्टान्तमाह
कयलीखंभो व जहा, उव्वेल्लेउं सुदुक्करं होति । ___ इय अजाउवसग्गे, सीलस्स विराहणा दुक्खं ॥ ४१२८ ॥ कदलीस्तम्भो वा यथा पटलबहलवाद् 'उद्वेल्लयितुम्' उद्वेष्टयितुं सुदुष्करो भवति, एवमार्यिकाऽपि बहूपकरणपावृता नोद्वेष्टयितुं शक्या । "इय" एवं योधादिभिर्दृष्टान्तैर्विधिनिर्गताया
आर्यायाः केनचिदुपसर्गे क्रियमाणेऽपि शीलस्य विराधना 'दुःखं' दुष्करा मन्तव्या ॥ ४१२८ ।। 20 किञ्च
एका मुक्का एका य धरिसिया णिवेदण जतणाय होति कायया ।
बाहाड न जहितव्वा, सेजतरादी सयं वा वि ॥ ४१२९ ॥ 'एका' काचिद् विधिनिर्गता गृहीताऽपि मुक्ता, 'एका च' अपरा धर्षिता, ततः 'यतनया' यथा शेषसंयत-संयतीजनो न जानाति तथा गुरूणां निवेदना कर्तव्या । अथ सा बाहाडिता 25 ततो न परित्यक्तव्या किन्तु शय्यातरादिना स्वयं वा तस्या वर्तापनं विधेयमिति' नियुक्ति. गाथासमासार्थः ॥ ४१२९ ॥ अथैनामेव विवृणोति
विहिणिग्गता उ एक्का, गोयरियाएँ गहिता गिहत्थेहिं ।
संवरियपभावेण य, फिडिया अविराहियचरित्ता ॥ ४१३०॥ 'एका' काचिद् विधिनिर्गता गोचरचर्या पर्यटन्ती गृहस्थैर्गृहीता, परं 'संवृतप्रभावेन' 30 सुप्रावरणमाहात्म्येन सा अविराधितचारित्रा स्फिटिता ॥ ४१३० ॥
लोएण वारितो वा, दट्टण सयं व तं सुणेवत्थं ।
सुद्दिढे तुवसंतो, सविम्हओ खामयति पच्छा ॥ ४१३१ ॥ १°ति सङ्ग्रहगाथा भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org