________________
११२२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहा०प्रकृते सूत्रम् ११ परिस्फुटैव तस्याः सञ्जायते । विधिनिर्गमने च 'पुनः' भूयोऽपि गुणान् वक्ष्ये ॥ ४११६ ॥ एतच्च सांन्यासिकीकृत्य प्रथममविधिनिर्गमने दोषशेषमाह
न केवलं जा उ विहम्मिआ सती, सवच्चतामेति मधूमुहे जणे ।
उवेति अन्ना विउ वच्चपत्ततं, अपाउता जा अणियंसिया य ॥ ४११७॥ न केवलं यैव 'सती' साध्वी 'विधर्मिता' शीलधर्मात् च्याविता सैव ‘मधुमुखे जने' दुर्जनलोके 'सवाच्यता' सकलकतामुपगच्छति, 'अन्याऽपि' एतरिक्ताऽपि 'वाच्यपात्रता' वचनीययोग्यतामुपैति या 'अप्रावृता' औपकक्षिक्याद्युपरितनोपकरणरहिता 'अनिवसिता च' अवग्रहानन्तकायधस्तनोपकरणवर्जिता भवति ॥ ४११७ ॥ किञ्च
___ण भूसणं भूसयते सरीरं, विभूसणं सील हिरी य इथिए । 10 गिरा हि संखारजुया वि संसती, अपेसला होइ असाहुवादिणी ॥४११८ ॥
'भूषणं' हारादिकं पिनद्यमानं शरीरं न भूषयति, किन्तु 'शीलं' ब्रह्मचर्य 'हीश्च' लज्जा एतदेव द्वयं स्त्रिया विभूषणम् । अमुमेवार्थ प्रतिवस्तूपमया द्रढयति-'गीः' वाणी सा संस्कारयुक्ताऽपि 'संसदि' सभायां यदि 'असाधुवादिनी' जकार-मकाराद्यसभ्यप्रलापिनी तदा 'अपेशला' शिष्टजनजुगुप्सनीयतया न शोभना भवति; एवमियमपि स्त्री हारादिविभूषिताऽपि यदि 16 शील-लज्जाविकला तदा शिष्टजनस्य जुगुप्सनीया भवति, अतः स्त्रियाः शीलं लज्जा च विभूषणम् ।। ४११८ ।। एतच्च शील-लज्जाद्वयं संयत्या विधिप्रावरणे भवति अतस्तदेवाभिधित्सुराह -
पट्टडोरुय चलणी, अंतो तह बाहिरा णियंसणिया ।
संघाडि खुजकरणी, अणागते चेव सतिकाले ॥ ४११९ ॥ पट्टकोऽ|रुकश्चलनिका अन्तर्निवसनी बहिर्निवसनी सङ्घाटिका कुब्जकरणी उपलक्षणत्वा20 दवग्रहानन्तकं कञ्चुक औपकक्षिकी वैकक्षिकी चानागत एव 'सत्काले' भिक्षासमये दृढतरमेतान्युपकरणानि साच्या प्रावरणीयानि ॥ ४११९ ॥ इदमेव बिभावयिषुराह
उग्गहणमादिएहिं, अजाओ अतुरियाउ भिक्खस्स ।
जोहो व्य लंखिया वा, अगिण्हणे गुरुग आणादी ॥ ४१२०॥ अवग्रहानन्तकादिभिरुपकरणैः 'आर्याः' संयत्यो भिक्षाऽत्वरिता आत्मानं भावयन्ति । क 25 इव ? इत्याह-योध इव लटिकेत्र वा । यथा योधः सङ्घामशिरसि प्रवेष्टुमनाः सन्नाहं पिनाति, यथा च लङ्खिका रङ्गभुवं प्रविशन्ती पूर्व चलनिकादिना गुडापिनद्धमिवात्मानं करोति, एवमार्याऽप्यवग्रहानन्तकादिसुप्रावृता निर्गच्छति । अथैतान्युपकरणानि न गृह्णाति ततश्चतुर्गुरुका आज्ञादयश्च दोषाः ॥ ४१२० ॥ अथ विशेषज्ञापनार्थमिदमाह
जोहो मुरुंडजड्डो, णाडइणी लंखिया कतलिखंभो।
अजाभिक्खग्गहणे, आहरणा होति णायव्वा ॥ ४१२१ ॥ ___ आर्याया भिक्षाग्रहणे यद् उपकरणप्रावरणं तत्रैतान्युदाहरणानि ज्ञातव्यानि । तद्यथा'योधः' प्रतीतः १ 'मुरुण्डजड्डो' मुरुण्डस्य राज्ञो हस्ती २ 'नाटकिनी' नर्तकी ३ 'लङ्खिका'
१°क्षाया [अ]त्व मा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org