________________
११२० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहा०प्रकृते सूत्रम् ११ अपि च
छकायाण विराहण, पडिगमणादीणि जागि ठाणाणि ।
तब्भाव पिच्छिऊणं, बितियं असती अहव जुण्णा ॥ ४१०७॥ शोणिते परिगलति षटकायानां विराधना भवति । सा च 'यद् द्रष्टव्यं तद् दृष्टम्' इति । कृस्वा प्रतिगमना-ऽन्यतीर्थिकगमनादीनि यानि स्थानानि कुर्यात् तन्निष्पन्नं प्रवर्तिन्याः प्रायश्चित्तम् । स चासौ-शोणितपरिगलनलक्षणो भावश्च तद्भावस्तं 'प्रेक्ष्य' विलोक्य तरुणा उपसर्गयेयुरिति वाक्यशेषः । द्वितीयपदमत्राभिधीयते- "असइ" ति नास्त्यवग्रहानन्तकम् , अथवा जीर्णा स्थविरा सा संयती अतो विद्यमानमपि न गृह्णीयादपि ॥ ४१०७ ॥
अथेदमेव भावयति10 दिटुं अदिट्टव्य महं जणेणं, लजाएँ कुजा गमणाइगाई ।
लजाएँ भंगो व हवेज तीसे, लज्जाविणासे व स किं न कुजा ॥४१०८॥ 'यद् ममाद्रष्टव्यं तद् दृष्टं तावद् जनेन, अतो नाहमत्र स्थातुं शक्नोमि' इति कृत्वा लज्जया 'गमनादीनि' गृहवासाश्रयणादीनि कुर्यात् , यद्वा 'तस्याः' संयत्या लज्जाया भङ्गो भवेत् ,
लज्जाविनाशे च सा किं नामाकृत्यं न कुर्यात् ? ॥ ४१०८ ॥ तथा15 तं पासिउं भावमुदिण्णकम्मा, पेल्लेज सजेज व सा वि तत्थ ।
तं लोहियं वा वि सरक्खमादी, विजा समालब्भऽभिजोययंति ॥ ४१०९ ॥ 'तं' रुधिरपरिगलनरूपं भावं दृष्ट्वा केचित् तरुणा उदीर्णकर्माणश्चतुर्थप्रतिसेवनाथ प्रेरयेयुः । 'साऽपि च' संयती तत्र 'सँजेत्' सङ्गं कुर्यात् । यद्वा तद् लोहितं 'सरजस्कादयः'
कापालिकप्रभृतयः 'समालभ्य' गृहीत्वा विद्याप्रयोगेण 'अभियोजयन्ति' वशीकुर्वन्ति ।।४१०९|| 20 यत एवमतः
अंतो घरस्सेव जतं करेती, जहा णडी रंगमुवेउकामा ।
लजापहीणा अह सा जणोघं, संपप्प ते ते पकरेति हावे ॥ ४११०॥ यथा 'नटी' रङ्गनर्तकी 'रङ्ग' नाट्यस्थानमुपैतुकामा गृहस्यैव ‘अन्तः' मध्ये 'जयं' लज्जाया अभिभवं करोति, 'अथ' अनन्तरं सा लज्जापहीणा सती 'जनौघं जनसमुदायं सम्प्राप्य 'तान् 25 तान् भावान्' अङ्गविक्षेपादीन् प्रकरोति; एवं संयत्यपि भिक्षां गन्तुमनाः प्रतिश्रयमध्य एवावग्रहानन्तकादिभिरुपकरणैरात्मानं सुप्रावृतं करोति, ततो भिक्षां पर्यटन्ती तरुणादिष्ववलोकमानेध्वपि सुखेनैव लज्जां पराजयते ॥ ४११० ॥ अथ द्वितीयपदमाह--
असईय पंतगरम उ, पणवण्णुत्तिण्णिगा व ण उ गिण्हे ।
निग्गमणं पुण दुविहं, विधि अविही तत्थिमा अविही ।। ४१११ ॥ 30 अवग्रहानन्तकस्याभावे पञ्चपञ्चाशद्वर्षेभ्य उत्तीर्णा वा संयती प्रम्लानयोनिकतया न गृहीयादपि । इह च भिक्षाया निर्गमनं द्विविधम् -विधिना अविधिना च । तत्र तावदयमविधिः ॥४१११।।
उग्गहमादीहि विणा, दुणियत्था वा वि उक्खुलणियत्था । १ भजेज मो० त० ॥ २ रप्रवहनरूपं मो० ॥ ३ 'भजेत्' भा० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org