________________
15
भाष्यगाथाः ४१००-६] तृतीय उद्देशः । तत्र च बद्धे पूयादिभिरुपलिप्ते धावनविधिमाह
पूय-लसिगा उपस्सएँ, धोव्वति असहुस्स पट्टों रुहिरं च।
उग्गह पट्टं च सहू, वीयारे लोहियं धुवति ॥ ४१०३ ॥ पूय-रसिके अखाध्यायिकं न भवतीति कृत्वा ते उपाश्रय एव धाव्येते । यो भगन्दरादिरोगवान् बहिर्गन्तुमसहिष्णुस्तस्य पट्टो रुधिरं चोपाश्रये क्वचिद् मात्रके धान्यते, ततस्तद्धावनं. हस्तशताद बहिः परिष्ठाप्यते । अथासौ बहिर्गन्तुं सहिष्णुस्ततो विचारभूमौ गतः स्वयमेवावग्रहपट्टकं रुधिरं च धावति ।। ४१०३ ॥ पट्टबन्धने विधिमाह
ते पुण होंति दुगादी, दिवसंतरिएहिँ बज्झए तेहिं ।
अरुगं इहरा कुच्छइ, ते वि य कुच्छंति णिच्चोल्ला ॥ ४१०४॥ ते पुनः' अवग्रहानन्तक-पट्टाः 'द्विकादयः' द्वि-त्रिप्रभृतिसङ्ख्याकाः कर्तव्याः, तैर्दिवसान्तरि-10 तैर्वणो बध्यते । किमुक्तं भवति ?-येनावग्रहानन्तकेन पट्टकेन वा अद्य व्रणो बद्धः द्वितीयदिने स उन्मोच्य प्रक्षाल्य चापरिभोग्यो विधेयः, यः पुनराद्यदिने न परिभुक्तः तेन तस्मिन् दिने व्रणो बन्धनीयः । 'इतरथा' प्रतिदिनं तेनैव पटेन बन्धे दीयमाने 'अरुकं' व्रणः 'कुथ्यति' पूति. भावमुपगच्छति, 'तेऽपि च' पट्टाः प्रतिदिनं बध्यमानतया नित्यं-सदैवार्द्राः सन्तः कुथ्यन्ति, अतो यादयः पट्टाः कर्तव्याः ॥ ४१०४ ॥ सूत्रम्
कप्पइ निग्गंथीणं उग्गहणंतगं वा उग्गहपट्टगं वा
धारित्तए वा परिहरित्तए वा ११ ॥ - अस्य व्याख्या प्राग्वत् ।। अत्र भाष्यविस्तरः
निग्गंथीण अगिण्हणे, चउरो गुरुगा य आयरियमादी ।
। तच्चण्णिय ओगाहण, णिवारणऽण्णेसि ओहसणं ॥४१०५॥ निर्ग्रन्थीनामवग्रहानन्तकस्य पट्टकस्य वा अग्रहणे चतुर्गुरुकाः । इदं सूत्रमाचार्यः प्रवर्तिन्या न कथयति चत्वारो गुरवः । प्रवर्तिनी संयतीनां न कथयति चत्वारो गुरवः । आर्यिका न प्रतिशृण्वन्ति मासलघु । भिक्षादौ गच्छन्ती यद्यवग्रहानन्तकं पट्टकं वा न गृहाति तत एते दोषाः-तञ्चन्निकस्य-रुधिरस्य भिक्षां गच्छन्त्याः 'अवगाहनं' प्रसरणम् अन्येषु दिवसेष्व-25 वग्रहानन्तक-पट्टाभ्यां निवारितमासीत् परं तदिवसमगृहीतयोस्तयो रुधिरमवगाढम् , ततो लोकस्तद् दृष्ट्वा उपहसनं कुर्यात् ॥ ४१०५ ॥ कथम् ! इति चेद् उच्यते
भिक्खाइ गयाएँ निग्गयं, रुहिरं दहमसंजता वदे ।
धिगहो! बत! केणऽयं जगो, दोसमिणं असमिक्ख दिक्खिओ ॥४१०६॥ भिक्षायां गतायास्तस्या रुधिरं निर्गतं दृष्ट्वा असंयता वदेयु:-'बत!' इत्यामन्त्रणे, भो भो 30 लोकाः । धिगहो ! कष्टम् , केनायं स्त्रीलक्षणो जनोऽमुं दोषमसमीक्ष्य दीक्षितः ॥ ४१०६॥ १ . एतदन्तर्गतः पाठः भा० नास्ति ॥ २ अथ भा भा० सं० डे.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org