________________
१११८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवमहा०प्रकृते सूत्रम् १० प्रथमपदमुत्सर्गः तदपेक्षया द्वितीयपदम् अपवादस्तत्र प्रागुक्तखरूपं पुस्तकपञ्चकं गृह्यते, 'फलक नाम' पट्टिका यस्यां लिखित्वा पठ्यते । एष उत्कृष्ट औपग्रहिकोपधिर्मन्तव्यः ॥ ४०९९ ।।
॥ भिन्नाभिन्नवस्त्रप्रकृतं समाप्तम् ॥
अ व ग्र हा न न्त का व ग्रह पट्टक प्रकृतम्
5
सूत्रम्
नो कप्पइ निग्गंथाणं उग्गहणंतगं वा उग्गहपट्टगं
वा धारित्तए वा परिहरित्तए वा १०॥ अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
उभयम्मि वि अविसिहं, वत्थग्गहणं तु वणियं एयं ।
जं जस्स होति जोग्गं, इदाणि तं तं परिकहेति ॥ ४१००॥ उभयं-भिन्ना-ऽभिन्नसूत्रद्वयम् एतस्मिन् 'अविशिष्टम्' 'इदं साधूनां कल्पते न कल्पते वा' इत्यादिविशेषरहितम् इदम्' ('एतत्') अनन्तरोक्तं वस्त्रग्रहणं वर्णितम् । इदानीं तु यद् यस्य संयतस्य संयत्या वा योग्यं तत् तत् सूत्रेणैव साक्षात् परिकथयतीति ॥ ४१०० ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्यानो कल्पते निर्मन्थानाम् 'अवग्रहानन्तकं वा' गुह्य16देशपिधानवस्त्रम् 'अवग्रहपट्टकं वा' तस्यैवाच्छादकपट्ट धारयितुं वा परिहर्नु वा इति सूत्रसङ्केपार्थः ॥ अथ नियुक्तिविस्तरः
निग्गंथोग्गहधरणे, चउरो लहुगा य दोस आणादी।
अतिरेगउवहि तह लिंगमेद वितियं अरिसमादी ॥४१०१॥ निम्रन्थानामवग्रहानन्तक-पट्टयोर्धारणे चत्वारो लघुमासाः आज्ञादयश्च दोषाः, अतिरिक्तो20 पधित्वादधिकरणं भवेत् । तथा लिङ्गभेदः कृतो भवति, साध्वीनां लिङ्गमाश्रितं भवतीत्यर्थः । द्वितीयपदविषयम् अशोरोगादिकं तत्रावग्रहानन्तकं पट्टकं वा धारयेत् ॥ ४१०१ ।। द्वितीयपदमेव भावयति
भगंदलं जस्सऽरिसा व णिचं, गलंति पूर्य लसि सोणियं वा ।
उड्डाह-सज्झाय-दयाणिमित्तं, सो उग्गहं बंधति पट्टगं च ॥४१०२॥ 25 'भगन्दरः' पुतसन्धौ व्रणविशेषोऽशासि वा यस्य नित्यं पूयं वा रसिकां वा शोणितं या गलन्ति सः 'उड्डाह-खाध्याय-दयानिमित्तम्' 'अहो ! अमी ईदृशा I एव पापोपहता रोगाभिभूतवपुषः प्रव्रज्यां प्रतिपद्यन्ते' इत्यादिक उड्डाहो मा भूत् , तथा शोणिते परिगलति खाध्यायः कर्तुं न कल्पते, पूय-रसिका-शोणितगन्धाघ्राणाच्च कीटिकादिप्राणिनाममिलीयमानानामुपघातो भवेत् , अतोऽवग्रहानन्तकं पट्टकं वा बध्नाति ॥ ४१०२ ॥
१ वा अवग्रहपट्टकं वा धारयि भा० ॥ २°यं रसि मो० ले.॥ ३ एतचिहान्तर्गत पाठः ताटी. मो.ले . नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org