________________
भाष्यगाथाः ४ ०९१-९९] तृतीय उद्देशः । य उपधिः स उपग्रहोपधिरुच्यते, तमपि जघन्यादिविभागनिरूपणेनाहं वक्ष्ये ।। ४०९५ ॥ तत्र जघन्यं तावदाह
पीढग णिसिज दंडगपमजणी घट्टए डगलमादी ।
पिप्पलग सूयि णहरणि, सोहणगदुगं जहण्णो उ ॥ ४०९६ ॥ पीठकं काष्ठमयं छगणमयं वा । निषद्या रजोहरणस्य सौत्रिकी और्णिकी चेति द्विविधा । 'दण्डकप्रमार्जनी नाम' यया वसतिः प्रमाय॑ते । 'घट्टकः' लिप्तपात्रमसृणताकारकः पाषाणः । डगलकाः-पुतप्रोञ्छनोपयोगिनो लेष्टवः, आदिशब्दात् कुटमुख-क्षारादिपरिग्रहः । 'पिप्पलकः' क्षुरप्रः । 'सूची' यया वस्त्रं सीव्यते । 'नखहरणी' यया नखा उड्रियन्ते । 'शोधनकद्विकं तु' कर्णशोधनं दन्तशोधनं चेति । एष जघन्य औपग्रहिकोपधिः ॥४०९६॥ अथ मध्यममाहवासत्ताणे पणगं, चिलिमिणिपणगं दुगं च संथारे ।
10 दंडादीपणगं पुण, मत्तगतिग पादलेहणिया ॥ ४०९७ ॥ चम्मतिगं पट्टदुगं, णायव्यो मज्झिमोवही एसो।।
अजाण वारए पुण, मज्झिमए होति अतिरित्तो ॥ ४०९८ ॥ वर्षात्राणानां पञ्चकम्-वालमयं सूत्रमयं सूचीमयं कुटशीर्षकं छत्रकं चेति । तत्र वालमयं सूत्रमयं च प्रतीतम् , सूची-ताडपत्रसूच्यादिखुम्पकः, कुटशीर्षकं पलाशपत्रमयम् , छत्रकं वंश-15 मयम् । चिलिमिलिपञ्चकम्-वालमयी सूत्रमयी वल्कमयी कटमयी दण्डमयी चेति, पञ्चापि । प्रथमोद्देशके (सू० १८ गा० २३७४ ) विख्याताः । संस्तारकद्विकं शुषिरा-ऽशुषिरभेदात् । शुषिरस्तृणादिमयः, अशुषिरः काष्ठमयः । दण्डादिपञ्चकम्-दण्डको विदण्डको यष्टिवियष्टिर्नालिका चेति । मात्रकत्रिकं तु खेल-प्रश्रवणोच्चारमात्रकभेदात् । पादलेखनिका वटोदुम्बरप्लक्षा-ऽम्लिकाकाष्ठमयी वर्षासु कर्दमापनयनी ॥ ४०९७ ॥
20 चर्मत्रिक पुनरिदम्--आस्तरणं प्रावरणमुपवेशनं च । दवानलादिभये यद् भूमावास्तीर्यते प्रलम्बादिविकरणाय वा तदास्तरणम् , षट्पदिकाभये यत् प्राब्रियते तत् प्रावरणम् , यत्राोंरोगादिभिः कारणैरुपविश्यते तदुपवेशनम् । अथवा कृत्तिः तलिका वश्चेति चर्मत्रिकम् । पट्टद्विकम् --संस्तारपट्ट उत्तरपट्टश्च, अथवा पर्यस्तिकापट्टः सन्नाहपट्टश्चेति । तत्र पर्यस्तिकापट्टो योगपट्ट उच्यते, सन्नाहपट्टस्तु विहारे उपधेः शरीरेण सह बन्धनार्थः । एष मध्यम 25 उपग्रहोपधिः साधूनां ज्ञातव्यः । आर्याणामप्येवमेव, नवरम्-तासां जनमध्य एवोपाश्रयस्यानुज्ञातत्वात् ससागारिके वसन्तीनां प्रश्रवणव्युत्सर्जनानन्तरमुदकस्पर्शनार्थं वारको मध्यमोपधावतिरिक्तो भवति ॥ ४०९८ ॥ अथोत्कृष्टमाह -
अक्खा संथारो या, दुविहो एगंगिएतरो चेव ।
पोत्थगपणगं फलगं, वितियपदे होति उक्कोसो ॥ ४०९९ ॥ 30 ___ 'अक्षाः' अनुयोगदाने गुरूणां भङ्ग चारणिकार्थमुपकरणम् । संस्तारको द्विविधः-एकाङ्गिक इतरश्च । तत्रैकाङ्गिकः-तिनिशादिकाष्ठंपट्टरूपः, इतरः-दवरकावबद्धकम्बिकामयः ।
१वासाताणे ताभा० ॥२°के व्याख्या कां० भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org