SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १११६ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ भिन्नाभिन्न० प्रकृते सूत्रम् ९ क्रियन्ते । चतस्रोऽपि च गणनाप्रमाणेनैकमेव रूपं गण्यते, युगपत् परिभोगाभावात् ॥ ४०९०॥ खंधकरणी उ चउहत्थवित्रा वायविहुतरक्खट्ठा ! खुजकरणी उकीरति, रूववंतीणं कुडुहहेउं ॥ ४०९१ ॥ स्कन्धकरणी चतुर्हस्तविस्तरा समचतुरस्रा प्रावरणस्य वातविधुतरक्षणार्थं चतुष्फला स्कन्धे 5 कृत्वा प्रात्रियते । रूपवतीनां च संयतीनां कुटुभहेतोः कुब्जकरण्यपि क्रियते, पृष्ठदेशे संवर्त्तितया औपकक्षिकी- वैकक्षिकीनिबद्धया तया विरूपतापादनाय कुटुभं विधीयत इति भावः ॥ ४०९१ ॥ उपसंहरन्नाह संघातिमेत वा, सव्वोऽवेसो समासओ उवधी । पासगबद्धमसिरो, जं चाऽऽइणं तगं णेयं ॥ ४०९२ ॥ सर्वोऽपि 'एषः ' अनन्तरोक्त उपधिः समासतो द्विधा - सङ्घातिम इतरश्च । द्वित्र्यादिखण्डानां मीलनेन निष्पन्नः सङ्घातिमः, 'इतर' तद्विपरीतोऽसङ्घातिमः । अयं च 'पाशकबद्ध ः ' कसाबद्धः तथा 'अशुषिर ः ' गृहिसीवनिकारहितः प्रतिथिग्गलवर्जितो वा । यच्चात्र द्रव्य क्षेत्रकाल-भावेषु संविग्नगीतार्थैः पूर्वसूरिभिर चीर्णं तत् सर्वमपि ' ज्ञेयं' सम्यगुपादेयतया मन्तव्यम् ॥ ४०९२ ॥ अथ जिनकल्पिकादीनामुपधेरुत्कृष्टादि विभागमाह 15 10 20 - उक्कोसओ जिणाणं, चउव्विहो मज्झिमो वि य तहेव । [नि.गा. १४१०-१६] जहणो हि खलु, एतो थेराण वोच्छामि ॥ ४०९३ ॥ त्रयः कल्पाः प्रतिग्रहश्चेति जिनकल्पिकानामुत्कृष्ट उपधिश्चतुर्विधः । एवं मध्यमोsपि रजोहरण-पटलक-पात्रबन्ध-रजस्त्राणभेदात् चतुर्विधः । जघन्योऽपि मुखपोतिका - पादकेसरिकागोच्छक - पात्रस्थापन भेदात् चतुर्विधः । इत ऊर्द्ध स्थविरकल्पिकानां वक्ष्यामि ॥ ४०९३ ॥ कोसो थेराणं, चव्विहो छव्त्रिहो य मज्झिमओ । जहणो हि खलु, एत्तो अजाण वोच्छामि ॥ ४०९४ ॥ उत्कृष्टो जघन्यश्च जिनकल्पिकानामिव द्रष्टव्यः । नवरं मध्यमः षड्विध इत्थम् - रजोहरणं पटलकानि पात्रकबन्धो रजस्त्राणं मात्रकं चोलपट्टकश्चेति । [ इत ऊर्द्धमार्याणां वक्ष्यामि ] ॥ ४०९४ ॥ 25 कोसो अट्ठविहो, मज्झिमओ होइ तेरसविहो उ । जहण्णो चव्विहो खलु, एत्तो उ उवग्गहं वोच्छं ।। ४०९५ ।। आर्याणामुत्कृष्ट उपधिरष्टविधः: - त्रयः कल्पाः ३ प्रतिग्रहः ४ अभ्यन्तरनिवसनी ५ बहिर्निवसनी ६ सङ्घाटिका ७ स्कन्धकरणी ८ चेति । मध्यमस्त्रयोदशविधो भवति, तद्यथा-रजोहरणं १ पटकानि २ पात्रकबन्धः ३ रजस्त्राणं ४ मात्रकं ५ कमठकम् ६ अवग्रहानन्तकं ७ 30 पट्टः ८ अर्धोरुकः ९ कञ्चुकः १० चलनिका ११ औपकक्षिकी १२ वैकक्षिकी १३ चेति । जघन्यश्चतुर्विधः – मुखपोतिका पात्रकेसरिका गोच्छकः पात्रस्थापनं चेति । इत ऊर्द्धमतिरिक्तो १ 'णी व की ताभा० ॥ २ सीप कु° ताभा० ॥ ३ पात्र के मो० ॥ ४ पादके भा० को० ताड़ी ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy