SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४०८०-९०] तृतीय उद्देशः । १११५ अधोरुकोऽपि तौ द्वावपि' अवग्रहानन्तक-पट्टावुपरिष्टाद् गृहीत्वा सर्व कटीभागमाच्छादयति, स च मल्लचलनाकृतिः केवलमूर्वोरन्तरे ऊरुद्वये च कसाबद्धः । चलनिकाऽप्येवमेव, नवरमधो जानुप्रमाणा अस्यूता लङ्खिकापरिधानवत्-वंशाग्रनर्तकीचलनकवंदसौ मन्तव्या ॥ ४०८६ ॥ अंतोनियंसणी पुण, लीणतरा जाव अद्धजंघातो। बाहिर खुलगपमाणा, कडीय दोरेण पडिबद्धा ॥ ४०८७ ॥ अन्तर्निवसनी पुनरुपरि कटीभागादारभ्याधोऽर्धजङ्घा यावद् भवति । सा च परिधानकाले लीनतरा परिधीयते, मा भूदनावृता जनोपहास्येति । बहिर्निवसनी पुनरुपरि कटीभागादारभ्याधः 'खुलकप्रमाणा' चरणगुल्फ यावदित्यर्थः, कट्यां च दवरकेण प्रतिबद्धा ॥ ४०८७ ॥ इदमधःशरीरस्य षड्विधमुपकरणमुक्तम् । अथोर्द्धकायोपयोगि कञ्चकादिकं व्याख्यातिछादेति अणुक्कुयिते, उरोरुहे कंचुओ असिव्वितओ। 10 एमेव य उक्कच्छी, सा णवरं दाहिणे पासे ॥ ४०८८॥ दैर्घ्यमाश्रित्य खहस्तेनार्धतृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तमानः 'असीवितः' उभयतः कटीदेशे कसावबद्धः कञ्चुकः क्रियते । स च उरोरुहौ छादयति, किम्भूतौ ? 'अनुत्कुचितौ' श्लथौ; गाढपरिधाने हि विविक्तविभागौ भवेताम् । कक्षायाः समीपमुपकक्षम्, तत्र भवा औपकक्षिकी, अध्यात्मादित्वादिकण्प्रत्ययः, 'एवमेव च' कञ्चुकवत् तस्या अपि स्वरूपं वक्त- 15 व्यम् । सा नवरं दक्षिणे पार्थे समचतुरस्रा खहस्तेन सार्धहस्तप्रमाणा उरोभागं पृष्ठं च प्रच्छादयन्ती वामस्कन्धे वामपार्श्वे च वीटकबद्धा परिधीयते ॥ ४०८८ ॥ वेगच्छिया उ पट्टो, कंचुकमुक्कच्छियं च छादेति । संघाडीओ चउरो, तत्थ दुहत्था उ वसधीए ॥ ४०८९ ॥ दुन्नि तिहत्थायामा, भिक्खडा एग एग उच्चारे । 20 ओसरणे चउहत्थाऽनिसन्नपच्छाइणी मसिणा ॥ ४०९० ॥ . औपकक्षिकीविपरीतो वैकक्षिकीनामकः पट्टः कञ्चकमौपकक्षिकी च छादयन् वामपार्श्वे परिधीयते । तथोपरि परिभोग्याः सङ्घाटिकाश्चतस्रो भवन्ति-एका द्विहस्ता, द्वे त्रिहस्ते, एका च चतुर्हस्ता; दैर्येण चतस्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा मन्तव्याः । तत्र 'द्विहस्ता' द्विहस्तविस्तृता सङ्घाटिका वसत्यां परिधीयते, न तां विहाय प्रकटदेहया कदाचिदासितव्य-25 मिति भावः ॥ ४०८९ ॥ ___ ये च द्वे 'त्रिहस्तायामे' त्रिहस्तविस्तृते तयोर्मध्ये एका भिक्षार्थ गच्छन्त्या प्रावियते, एका उच्चारभूमि वजन्त्या । तथा 'समवसरणे' व्याख्यानश्रवणादौ गच्छन्ती चतुर्हस्तां प्रावृणोति, सा च प्राक्तनसङ्घाटीभ्यो बृहत्तरप्रमाणा अनिषण्णप्रच्छादनार्थ क्रियते; यतो न तत्र संयतीभिरुपवेष्टव्यम् , किन्तूर्द्धस्थिताभिरनुयोगश्रवणादि विधेयम्, ततस्तया स्कन्धादारभ्य पादौ यावद् 30 वपुः प्रच्छाद्य तिष्ठन्ति । एताश्च पूर्वप्रावृतवेषप्रच्छादनार्थ प्रवचनवर्णप्रभावनार्थ च मसृणाः १°लमुपरि ऊरु° भा० का ताटी० ॥ २ °वत् सा म° मो० ले० ॥ ३ तरी जा तामा० ॥ ४°भूवुत्ता जनो° भा० का ताटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy