________________
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्स्नाकुल्लप्रकृते सूत्रम् ९ साधु-साध्वीजनलक्षणे ज्ञातव्यः ॥ ४०७९ ॥ तत्र स्थविरकल्पिकानां चतुर्दशविध ओघोपधिः प्रागनन्तरसूत्र एवोक्तः, अथार्याणां पञ्चविंशतिविधं तमेवाह
पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिया । [ओ.नि.६७५,नि. १३९६-१४०८] पडलाइ रयत्ताणं, च गोच्छओ पायनिजोगो ॥ ४०८० ॥ तिण्णेव य पच्छाया, रयहरणं चेव होइ मुहपोत्ती । [ओ.नि. ६७६] तत्तो य मत्तए खलु, चोद्दसमे कमढए होति ॥ ४०८१ ॥ उग्गहणंतग पट्टो, अड्डोरुअ चलणिया य बोधव्वा । [ओ.नि. ६७७] अभितर-बाहिणियंसणी य तह कंचुए चेव ॥ ४०८२ ॥
उक्कच्छिय वेकच्छिय, संघाडी चेव खंधकरणी य । [ओ.नि. ६७८] 10
ओहोवहिम्मि एते, अजाणं पण्णवीसं तु ॥ ४०८३ ॥ पात्रकादीनि त्रयोदशोपकरणानि साधूनामिव द्रष्टव्यानि । चतुर्दशं तु चोलपट्टकस्थाने तासां कमठकं भवति, तच्चाष्टकमयमेकैकं संयतीनां निजोदरप्रमाणेन विज्ञेयम् १४ । तथाऽवग्रहानन्तकं १५ पट्टः १६ अोरुकं १७ चलनिका च बोद्धव्या १८, अभ्यन्तरनिवसनी १९ बहिर्निवसनी २० तथा कञ्चकश्चैव २१ औपकक्षिकी २२ वैकक्षिकी २३ सङ्घाटी २४ 13 स्कन्धकरणी २५ । एवमेतान्योघोपधौ आर्यिकाणां पञ्चविंशतिरुपकरणानि भवन्तीति ॥ ४०८० ॥ ४०८१ ॥ ४०८२ ॥ ४०८३ ॥ अथैतान्येव विवृणोति
नावनिमो उग्गहणंतओ उ सो गुज्झदेसरक्खट्ठा ।
सो य पमाणेणेको, घण-मसिणो देहमासज्ज ॥ ४०८४॥ इह 'अवग्रहः' इति योनिद्वारस्य सामयिकी संज्ञा, तस्यानन्तकं-वस्त्रमवग्रहानन्तकम् , गाथायां 20 पुंस्त्वं प्राकृतत्वात् , तच्च 'नौनिभं' मध्यभागे विशालं पर्यन्तभागयोस्तु तनुकं गुह्यदेशरक्षार्थ क्रियते । तच गणनया एकम् , आर्चव-वीजपातसंरक्षणार्थं च धनं-धनवस्त्रेण, पुरुषसमानकर्कशस्पर्शपरिहरणार्थं च मसृणं-मसृणवस्त्रेण क्रियते । प्रमाणेन च 'देह' स्त्रीशरीरमासाद्य तद् विधीयते, देहो हि कस्याश्चित् तनुः कस्याश्चित्तु स्थूलः ततस्तदनुसारेग विधेयमित्यर्थः ॥४०८४॥ पट्टो वि होइ एको, देहपमाणेण सो उ भइयव्यो ।
(सर्वग्रन्थानम्-२७०००) छादंतोग्गहणतं, कडिबद्धो मल्लकच्छा वा ॥ ४०८५॥ पट्टोऽपि गणनयको भवति । स च पर्यन्तभागवर्तिवीटकबन्धबद्धः, पृथुत्वेन चतुरङ्गुलप्रमाणः समतिरिक्तो वा, दैर्येण तु स्त्रीकटीप्रमाणः। स च देहप्रमाणेन भक्तव्यः, पृथुलकटी
भागाया दीर्घः सङ्कीर्णकटीभागायास्तु इख इत्यर्थः । स चावग्रहानन्तकमुभयान्तयोराच्छादयन् 30 कटीबद्धः सन् मल्लकक्षावद् ज्ञायते ॥ ४०८५ ॥
अड्डोरुगो वि ते दो, वि गिहिउं छादए कडीभागं ।
जाणुप्पमाण चलणी, असिव्विया लंखियाए व ॥ ४०८६ ॥ १ एतदने ग्रन्थानम् ११५०० ताटी० । ग्रन्थानम् २५०० मो० ले० ॥
26
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org