SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४०७९-७९] तृतीय उद्देशः । १११३ अवम - राजद्विष्टादिषु वा असंस्तरणे प्रतिग्रहे कृतेऽन्यस्मिन् लभ्यमाने मात्र के गृह्यते । अध्वनि कल्पोऽध्वकल्पः, कल्पग्रहणं कारणे विधिना अच्चा प्रतिपन्न इति ख्यापनार्थम्, तत्रासंस्तरणे प्रतिग्रहे भृते सति मात्रकेऽपि गृह्यते ॥ ४०७५ ॥ 叮 अथ ग्रहण - द्वितीयपदद्वारे व्याख्यायेते - ग्रहणं नाम को मात्रकं गृह्णाति ? तत्र निर्वचनं यथा प्रतिग्रहे । द्वितीयपदं पुनरशिवादिभिः कारणैः येथाकृतमात्रकस्य यत्र सम्भवस्तत्र 5 गन्तुमशक्तौ - स्वस्थान एवाल्पपरिकर्म - बहुपरिकर्मणी ग्रहीतव्ये । लक्षणादीनि द्वाराणि प्रतिग्रह इव मन्तव्यानि ॥ अल्पपरिकर्मणि सपरिकर्मणि च पात्रे लेपप्रदानं सम्भवति अतस्तद्विषयं विधिमाह — हरिए बीए चले जुत्ते, वच्छे साणे जलट्ठिए । पुढवी संपातिमा सामा, महावाए महियाऽमिते ॥ ४०७६ ॥ पुव्वण्हें लेवदाणं, लेवग्गहणं सुसंवरं काउं । लेवरस आणणा लिंपणा य जतणाय कायव्वा ॥ ४०७७ ॥ गाथाद्वयमपि पीठिकायां ( गा० ५००, ४९१ ) सप्रपञ्चं व्याख्यातमिति ॥ ४०७६ ॥ ॥ ४०७७ ॥ सूत्रम् 10 कप्पइ निग्गंथाण वा निग्गंथीण वा भिन्नाई वत्थाई धारितए वा परिहरितए वा ९ ॥ •1 अस्य व्याख्या प्राग्वत् ॥ > आह— किमनेन सूत्रेण प्रयोजनम् ? पूर्वसूत्रेणैव गतार्थत्वात्, उच्यते Jain Education International 15 अव्वोगडो उ भणितो, उवधिविभागो उ आदिसुत्तेसु । सो पुण विभजमाणो, उवरिसुए वोगडो होति ॥ ४०७८ ॥ 'अव्याकृतः ' ' अयं जिनकल्पिकानाम्, अयं स्थविरकल्पिकानाम्, अयमार्थिकाणाम्' इत्येवमविशेषित एवोपधिविभागः 'आदिसूत्रेषु' अनन्तरोक्तेषु भणितः, 'स पुनः ' उपधि विभागो जिनकल्पिकादि विभागैर्विभज्यमानोऽस्मिन् प्रस्तुते उपरिसूत्रे 'व्याकृतः' स्फुटो भवति, अत इदं सूत्रमारभ्यते ॥ ४०७८ ॥ तमेवोपधिविभागं प्रचिकटयिषुराह - चोसग पण्णवीसो, ओहोवधुवग्गहो अणेगविधो । संथारपट्टमादी, उभयोपक्खम्मि यव्वो । ४०७९ ॥ इह जिनकल्पिकानामौधिक एवोपधिर्भवति नौपग्रहिकः, स्थविरकल्पिकानां तु द्विविधोऽपि भवति । तत्रौघोपधिर्द्विधा - चतुर्दशविधः पञ्चविंशतिविधश्च । चतुर्दशविधः साधूनाम्, पश्चविंशतिविधस्तु साध्वीनाम् । उपग्रहोपधिः पुनरनेकविधः, स च संस्तारपट्टादिरूपः 'उभयपक्षे' 30 १-२ एतदन्तर्गतः पाठः भा० नास्ति ॥ For Private & Personal Use Only 20 25 www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy