SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १११२ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृत्स्नाकृत्स्नप्रकृते सूत्रम् ९ वृद्धादीनां च तेन डहर मात्रकेणापर्याप्तं भवति तन्निष्पन्नं प्रायश्चित्तम् ॥ ४०७० ॥ तथापडणं अगुतम्मि, पुढवी तसपाण-तरुगणादीणं । आणिते गामंतरातों गलणे य छक्काया ॥ ४०७१ ॥ डहरमात्रके आकण्ठभृते लेपकृतीकरणभयाद् 'अपावृते' उद्घाटिते पृथिवीरजः - त्रसप्राणि० तरुगणादीनां पतनं भवेत् । अथवा ग्रामान्तरादतिभृते तस्मिन् आनीयमाने परिगलति षट्काया विराध्यन्ते ॥ ४०७१ ॥ अथाधिकद्वारमाह प्रमाणाधिकस्य मात्रकस्येमे दोषाः - 'एकतरस्य' भक्तस्य वा पानकस्य वा प्रतिग्रहे भृते 10 सति पश्चाद् मात्रके ग्रहणं कुर्यात् । सहसा वा तस्य मात्रकस्य भरणे कृते भारेण स्थाणु- कण्टकादीनि न प्रेक्षते तत्रात्मविराधना, ईर्याया अशोधने संयमविराधना । अन्यच्च द्वयोरपि प्रतिग्रह-मात्रकयोर्भृतयोः ‘विवेचनं' परिष्ठापनं भवेत् तत्र षट्कायविराधना । अथ न परिष्ठापयति ततोऽतिप्रचुरेण भक्षितेन ग्लानत्वं भवेत् । यत एवमादयो दोषाः अतः प्रमाणयुक्तं ग्रहीतव्यम् ॥ ४०७२ || अथ शोधिद्वारमाह 15 जइ भोयणमावहती, दिवसेणं तत्तिया चउम्मासा । दिवसे दिवसे तस्स उ, चितिएणारोवणा भणिया ॥ ४०७३ | 'यति' यावतो वारान् एकदिवसेन मात्रके 'भोजनं' भक्त पानम् - आत्मनो योग्यम् - ‘आवहति' आनयतीत्यर्थः तावन्ति चतुर्लघूनि । अथ दिवसे दिवसे मात्रकं परिभुक्ते ततो द्वितीयप्रायश्चित्तेनारोपणा भणिता । किमुक्तं भवति ? - द्वितीयदिवसे मात्रकं यावतो वारान् 20 परिभुङ्क्ते तावन्ति चतुर्गुरुकाणि, एवं तृतीये षड्लघु, चतुर्थे षड्गुरु, पञ्चमे छेदः, षष्ठे मूलम्, सप्तमेऽनवस्थाप्यम्, अष्टमे पाराञ्चिकम् ॥ ४०७३ || गतं शोधिद्वारम् । अथापवादद्वारमाहअण्णाणे गारवे लुद्धे, असंपत्ती य जाणए । लहुगो लहुगा गुरुगा, चउत्थो सुद्धो उ जाणओ ॥ ४०७४ ।। इयं यथा प्रतिग्रहे ( गा० ४०१६ ) तथा मात्रकेऽपि वक्तव्या ॥ ४०७४ ॥ 25 अहिस्स इमे दोसा, एगतरस्सोग्गहम्मि भरितम्मि | सहसा मत्तगभरणे, भारादि विर्गिचणियमादी ॥ ४०७२ ।। परिभोगद्वार माह - बाले बुढे सेहे, आयरिय गिलाण खमग पाहुणए । दुल्लभ संसत असंथरंत अद्धाणकप्पम्मि ॥ ४०७५ ॥ बालस्य वृद्धस्य शैक्षस्याचार्यस्य ग्लानस्य क्षपकस्य प्राघुणकस्य च प्रायोग्यं मात्रके गृह्यते । यद्वा बाल वृद्धादयः प्रतिमहं हिण्डापयितुं न शक्नुवन्ति अतस्ते मात्रके भक्त - पानमानयेयुः 30 भुञ्जीरन् वा । गच्छसाधारणं वा दुर्लभद्रव्यं घृतादिकं मात्रके गृह्णीयात् । यत्र वा भक्त- पानं संसज्यते तत्र मात्र गृह्यते, तद्धि संसक्तं मात्रके शोधयित्वा पश्चात् प्रतिग्रहे प्रक्षिप्यते । Jain Education International १ एते दोषाः भा० ॥ २ एतचिहान्तर्गतः पाठः भा० नास्ति । “जत्तिए वारे आत्ति एगदिवसेणं तत्तिया चउलहुग।” इति चूर्णौ विशेषचूर्णौ च ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy