________________
भाष्यगाथाः १०६४-७०] तृतीय उद्देशः ।
११११ अथ गाथाक्षरार्थः-चारत्नकेन प्रव्रज्यायां गृहीतायां पुत्रस्तस्य-वारत्तकस्य प्रतिमां देव. कुलेऽचीकरत् । तत्र च स्थली प्रवर्तिता । साधुश्चैकेन प्रतिग्रहेण भिक्षार्थमायातः । प्रतिचरणं च कुर्वाणैस्तेनैव प्रतिग्रहेण 'आचमनं' निलेपनं कुर्वाणं दृष्ट्वा तस्य 'उद्वालना' निष्काशना कृता । तस्यान्येषां च साधूनां व्यवच्छेदः कृतः । एवं मात्रकस्याग्रहणे उड्डाहो भवेत् ॥४०६६॥ अथ प्रमाणद्वारमाह
जो मागहओ पत्थो, सविसेसतरं तु मत्तगपमाण ।
दोसु वि दव्वग्गहणं, वासावासासु अहिकारो॥ ४०६७ ॥ यो 'मागध:' मगधदेशोद्भवः 'प्रस्थः'
"दो असईओ पसई, दो पसईओ य सेइया होति। चउसेइयाहि पत्थो"
10 इति क्रमनिष्पन्नः, ततो मागधप्रस्थात् सविशेषतरं मात्रकप्रमाणं भवति । तेन च मात्रकेण 'द्वयोरपि' ऋतुबद्ध-वर्षावासयोर्गुरु-ग्लानादियोग्यस्य भक्त-पानद्रव्यस्य ग्रहणं क्रियते । अन्ये तु व्याचक्षते-"दोसु वि" ति प्रतिग्रहे भक्तं मात्रके पानकं गृह्यते । वर्षावासे तु विशेषतो मात्रकेणाधिकारः, यतो वर्षासु प्रथममेव यत्र धर्मलाभयति तत्र पानकं गृह्णाति, यतः कदाचिद् व्याधारितं वर्ष निपतेद् येन गृहाद् गृह सञ्चरितुं न शक्यते ततः पानकेन विना प्रति-15 ग्रहो लेपकृतो भवति । अथवा वर्षावासे भक्त-पानं संसज्यत इति कृत्वा मात्रकेण तस्य शोधनं कार्यम् ।। ४०६७ ॥ प्रकारान्तरेण मात्रकप्रमाणमाह
सुक्खोल्लओदणस्सा, दुगाउतद्धाणमागओ साहू ।
भुजति एगट्ठाणे, एतं खलु मत्तगपमाणं ॥४०६८॥ शुष्कौदनस्यान्यभाजनगृहीतेन तीमनेनार्द्रस्य भृतं यद् ‘एकस्थाने' एकवारं द्विगव्यूतमात्रा- 20 दध्वन आगतः साधु ते एतत् खलु मात्रकप्रमाणं मन्तव्यम् ॥ ४०६८॥ यदि वा
भत्तस्स व पाणस्स व, एगतरागस्स जो भवे भरिओ।
पज्जत्तो साहुस्स उ, बितियं पि य मत्तयपमाणं ।। ४०६९॥ भक्तस्य वा पानकस्य वाऽनयोरेकतरस्य यद् भृतं सद् एकस्य साधोः पर्याप्तं भवति एतद् द्वितीयमपि मात्रकप्रमाणमवगन्तव्यम् ॥ ४०६९ ॥ अथ हीनद्वारमाह
25 डहरस्सेमे दोसा, ओभावण खिसणा गलंते य ।
छण्हं विराहणा भाणभेदों जं वा गिलाणस्स ।। ४०७० ॥ 'डहरस्य' यथोक्तप्रमाणाद् लघुतरस्य मात्रकस्येमे दोषाः, तद्यथा— 'अपभ्राजना' तद् लघुतरं मात्रकमतीव म्रियमाणं दृष्ट्वा लोको ब्रूयात्-अहो ! अमी बुभुक्षादुःखभमाः प्रवजन्ति । अथवा भक्त-पानं परिगलद् विलोक्य 'अहो ! अमी असन्तुष्टा एवं सिच्यमाना अपि न गणयन्ति' इति 30 खिंसां कुर्यात् । अतिभृते च गलति षट्कायानां विराधना । अथ परिगलनभयात् तत्रैवोपयोगं ददाति ततः स्थाण्यादौ प्रस्खलितस्य भाजनभेदो भवेत् । यद्वा ग्लानस्य उपलक्षणत्वाद् बाल१ 'वासे अहीका ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org