________________
16
१११० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्स्नाकृत्सप्रकृते सूत्रम् ८
यच्च द्रव्यावमौदरिकायामेकं पात्रमुक्तं तत्र द्वयोः पात्रयोर्धारणे ननु द्रव्यावमौदरिका किं न भवति ? त्रिप्रभृतीनामग्रहणाद् भवत्येवेति भावः । यच्चाभिहितम् “जे भिक्खू तरुणे" इत्यादि तत्र यदि सर्वेणापि साधुनैकमेव पात्रकं धारयितव्यं ततः किं तरुणादिभिर्विशेषणैरभिहितैः । अतो ज्ञायते तरुणादिविशेषणाभिधानाद् मात्रकमपि सामर्थ्यादनुज्ञातम् । यद्यपि "अप्पोवही' इत्यादि अभिहितं तत्र तु 'द्विपात्रः' पात्रद्वयोपेतोऽल्पोपधिरेव भवति, यतस्त्रिप्रभृतिष्वेव पदार्थेषु बहुशब्दो वर्तते, अतो ग्रहीतव्यं मात्रकम् ॥ ४०६३ ॥ अथ न गृह्णाति तत इमे दोषाः
अग्गहणे वारत्तग, पमाण हीणाऽधि सोहि अववाए ।
परिभोग गहण-बितियपय-लक्खणाई मुहं जाव ॥ ४०६४ ॥ 10 मात्रकस्याग्रहणे दोषा वक्तव्याः। वारत्तगदृष्टान्तश्चात्र भवति । प्रमाणम् हीना-ऽधिकप्रमाणे
च दोषाः। 'शोधिः' मात्रकपरिभोगे प्रायश्चित्तम् । 'अपवादः' हीना-ऽधिकधारणालक्षणः । परिभोगः कारणे मात्रकस्य यथा विधीयते । ग्रहण-द्वितीयपद-लक्षणादीनि मुखं यावद् यानि प्रतिग्रहद्वाराण्यभिहितानि तदेतत् सर्व वक्तव्यमिति द्वारगाथासङ्केपार्थः ॥ ४०६४ ।। __ अथैनामेव विवरीषुराह
मत्तअगेण्हणे गुरुगा, मिच्छत्ते अप्प-परपरिचाओ।
संसत्तगगहणम्मि, संजमदोसा सवित्थारा ॥४०६५ ॥ मात्रकं यदि न गृह्णाति ततश्चतुर्गुरुकाः । येऽभिनवश्राद्धास्ते तेनैव प्रतिग्रहेण भोजनं पुननिर्लेपनं च कुर्वाणं दृष्ट्वा 'दुर्दृष्टधर्माणोऽमी' इति मिथ्यात्वं गच्छेयुः । यदि प्रतिग्रहे आचा
र्यादीनामय गृह्णाति तत आत्मपरित्यागः । अथात्मनो गृह्णाति ततः परेषाम्-आचार्यादीनां 20 परित्यागः कृतो भवति । संसक्तभक्त-पानं चाप्रत्युपेक्षितं यदि प्रतिग्रहे गृह्णाति ततः संयमदोषाः सविस्तराः “छक्काय चउसु लहुगा" (गा० ४६१, ८७९, २७७१ प्रभृतयः ) इत्यादिविस्तरसहिता वक्तव्याः ॥ ४०६५ ॥ अथ वारत्तगदृष्टान्तमाह- .
वारत्तग पव्वजा, पुत्तो तप्पडिम देवथलि साहू ।
पडियरणेगपडिग्गह, आयमणुव्यालणा छेओ ॥ ४०६६ ॥ 25 वारत्तगपुरं नगरं । तत्थ य अभयसेणो राया । तस्स अमच्चो वारत्तगो नाम, सो
पत्तेगबुद्धो घरसारं पुत्तस्स निसिरियं पव्वइओ । तस्स पुत्तेण पिउभत्तीए देवकुलं कारेत्ता रयहरण-मुहपोत्तिय-डिग्गहधारिणी पिउ» पडिमा ठाविया, तत्थ य सत्तागारो पवत्तिओ। तत्थ. य एगो साहू एगपडिग्गहधारी पडिग्गहए भिक्खं घेत्तुं तं भोत्तुं तत्थेव पडिग्गहे पुणो पाणगं घेत्तुं सन्नं वोसिरिलं तेणेव पडिग्गहेणं निल्लेवेइ । तेसि सत्ताकारनिउत्ताणं चिंता 30 जाया---'कहं निल्लेवेइ ?' ति पडियरिओ । दिट्ठो तेहिं, निच्छूढो । तस्स अन्नेसिं च साहूणं वोच्छेओ तत्थ जाओ ॥
१°समासार्थः का० ॥ २°भग्गसे° भा० चूर्णी विशेषचूर्णौ च ॥ ३ एतदन्तर्गतः पाठः भा० कां० एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org