SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४०५४-६३ ] तृतीय उद्देशः । वितिय ततिएस नियमा, मुहकरणं होज तस्सिमं माणं । तं चिय तिविहं पायं, करंडगं दीह वट्टं च ।। ४०५९ ।। 'द्वितीय - तृतीययोः' अल्पपरिकर्म-सपरिकर्मणोर्नियमाद् मुखकरणं भवेत् । ' तस्य च' मुखस्य 'इदं' वक्ष्यमाणं मानम् । तत्र यस्य पात्रस्य मुखं विचारयितव्यं तत् त्रिविधम्- कैरण्डकं दीर्घं वृत्तं च । 'करण्डकं' करण्डकाकारं बहुपृथुत्वमल्पोच्छ्रयम्, 'दीर्घम् ' अल्पपृथुत्वं 5 बहूच्छ्रयम्, 'वृत्तं' चतुरस्रम् ॥ ४०५९ ॥ एतेषां मुखप्रमाणमाहअकरंडगम्मि भाणे, हत्थो उट्टं जहा न घट्टेति । एयं जहन्नगमुहं, वत्युं पप्पा विसालतरं ॥ ४०६० ॥ 'अकरण्डके' करण्डकाकाररहिते दीर्घे समचतुरस्रे वा भाजने हस्तः प्रविशन् निर्गच्छन् वा यथा 'ओष्ठं' कर्ण 'न घट्टयति' न स्पृशति एतत् सर्वजघन्यं मुखप्रमाणम् । अतः परं 'वस्तु' 10 बृहत्तरपात्रादिकं 'प्राप्य' प्रतीत्य विशालतरं मुखं क्रियते । यत् पुनः करण्डकाकारं पात्रं तस्य विशालमेव मुखं कर्त्तव्यम्, अन्यथा तद् दुःप्रत्युपेक्षं भवति ॥ ४०६० ॥ एष प्रतिग्रहविधिरुक्तः । इदानीं मात्रकविधिः, तत्र परः प्रेरयति - ननु तीर्थकरैस्तावद् मात्रकं नानुज्ञातम्, कथम् ? इति चेद् उच्यते दव्वे एगं पायं, भणिओ तरुणो य एगपाओ उ । ११०९ - अप्पोवही पसत्थो, चोएति न मत्ततो तम्हा ॥ ४०६१ ॥ Jain Education International उपकरणद्रव्यावमौदरिकायामेकमेव पात्रमुक्तम् । तथा चागमःएगे वत्थे एगे पाए चियत्तोवगरणसाइज्जणया । तथा यो भिक्षुस्तरुणो युगवान् बलवान् स एकपात्रो भवेत् । तथा च आचारसूत्रम् - जे भिक्खू तरुणे जुगवं बलवं० से एगं पायं धारेज्जा । (श्रु० २ चू० १ अ० ६ उ० १ ) 20 अल्पोपधिश्च प्रशस्तः । तथा च दशवैकालिकसूत्रम् — अप्पोवही कलहविवज्जणा य, विहारचरिया इसिणं पसत्था । ( चू० २ गा० ५ ) यत एवमतो न मात्रकं ग्रहीतव्यम्, गाथायां पुंस्त्वं प्राकृतत्वाद् इति परः प्रेरयति ॥ ४०६१ ॥ अथ सूरिराह जिणकप्पे तं सुतं, सपडिग्गहकस्स तस्स तं एगं । नियमा थेराण पुणो, बितिजओ मत्तओ होइ ॥ ४०६२ ॥ नोदक ! यदेकपात्रादिप्रतिपादकं सूत्रं तद् जिनकल्पविषयं मन्तव्यम् । तथाहि — यः सप्रतिग्रहो जिनकल्पिकस्तस्य 'तत्' प्रतिग्रहलक्षणमेकं पात्रं भवति । स्थविराणां पुनर्नियमाद् द्वितीयं मात्रकं भवति, "एगं पायं जिणकप्पियाण थेराण मत्तओ बीओ ।" ( ओघनि० गा० ६७९ ) इति वचनात् ॥ ४०६२ ॥ नणु दव्वोमोयरिया, तरुणाइविसेसओ य मत्तो वि । अप्पोवही दुपत्तो, जेणं तिप्पमिति बहुसो || ४०६३ ॥ १ एतदन्तर्गतः पाठः भा० कां० एव वर्त्तते ॥ २ 'त्तं' समचतु' भा० कां० ॥ For Private & Personal Use Only 15 25 30 www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy