SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ११०८ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृत्स्ना कृत्स्नप्रकृते सूत्रम् ८ एष घोपधौ औपग्रहिकोपधौ च सर्वस्मिन्नपि विधिरवसातव्यः । एवं च क्रमागतमल्पपरिकर्मादि गृहीत्वा तत्रोपयुक्तो यः छेदन-भेदने करोति सः 'शुद्ध' न प्रायश्चित्तभाग् कुतः ? इत्याह —‘यद्' यस्माद् यथोक्तक्रमागतं विधिं विदधानस्य निर्जरा विपुला भवति ॥४०५३॥ ननु चाल्पपरिकर्मादौ छेदनादिपरिकर्मसम्भवादात्म-संयमविराधना भवति ततः कथं तस्य o ग्रहणमनुज्ञायते ? उच्यते चोयग ! एताए चिय, असईय अहाकडस्स दो इयरे । कष्पति छेयणे पुण, उवओगं मा दुवे दोसा ॥ ४०५४ ॥ हे नोदक ! या पूर्वं द्विविधा असत्ता प्ररूपिता 'एतयैव' यथाकृतस्यासत्तया 'द्वे इतरे' अल्पपरिकर्म-सपरिकर्मणी कल्पेते प्रतिग्रहीतुम्, परं तयोश्छेदनादौ महता प्रयत्नेनोपयोगं 10 करोति, मा 'द्वौ ' संयमा-ssत्मविराधनालक्षणौ दोषौ भूतामिति कृत्वा ॥ ४०५४ ॥ अहवा विकतो णेणं, उवओगो न वि य लब्भती पढमं । हीणाहियं व लब्भति, सपमाणा तेण दो इयरे ॥। ४०५५ ।। अथवा कृतः 'अनेन' साधुना 'उपयोगः ' मार्गणव्यापारः परं न लभ्यते 'प्रथमं' यथाकृतं पात्रम्, अथवा लभ्यते परं स्वप्रमाणतो हीनाधिकं तेन कारणेन 'द्वे इतरे' अल्पपरिकर्म-सप15 रिकर्मणी यथाक्रमं गृह्णाति ॥ ४०५५ ॥ कुतः ? इति चेद् उच्यते जह सपरिकम्मलंभे, मग्गतें अहाकडं भवे विपुला । निज्जरमेवमलंभे, बितिथस्सियरे भवे विउला ।। ४०५६ ।। यथा 'सपरिकर्मणः' अल्पपरिकर्मपात्रकस्य लाभेऽपि यथाकृतं मार्गयतो विपुला निर्जरा भवति, तथा यथाकृताला 'इतरस्मिन्' बहुपरिकर्मणि लभ्यमानेऽपि 'द्वितीयस्य' अल्पपरिक20 र्मणो मार्गणे उपलक्षणत्वादल्प परिकर्मणोऽप्यलामे बहुपरिकर्ममार्गणे विपुलैव निर्जरा द्रष्टव्या ।। ४०५६ ।। अथवा — यत्र यथाकृतमल्पपरिकर्म वा भाजनं प्राप्यते तत्र अपान्तराले वाऽशिवमवमौदर्यं राजद्विष्टं 25 ' भयं वा' बोधिक स्तेनादिसमुत्थं वर्त्तते, ग्लानलं वा कस्यापि साधोः सञ्जातं तत्प्रतिबन्धेन न शक्यते तत्र गन्तुम्, शैक्षस्य वा तत्र सागारिकम्, चारित्रस्य वा चरिकाद्युपसर्गसमुत्थों मेदः, श्वापदाः - सिंहादयस्तेषां वा भयम्, एवमादिभिः कारणैः 'तृतीयमपि' बहुपरिकर्म पात्रं स्वस्थाने गृह्णीयात् ॥ ४०५७ ॥ उक्तमेवार्थं सिंहावलोकितेनाह— 30 असिवे ओमोदरिए, रायद्दुट्टे भए व गेलने । सेहे चरित्त सावयभए य ततियं पि गिव्हिजा ।। ४०५७ ।। आगंतुगाणि ताणि य, चिरपरिकम्मे य सुत्तपरिहाणी | एएण कारणेणं, अहाकडे होति गहणं तु ॥ ४०५८ ।। यथाकृते यानि बीजानि तान्यागन्तुकानि चिरकालपरिकर्मणि च क्रियमाणे सूत्रार्थपरिहाणिः, एतेन कारणेन यथाकृतस्य ग्रहणं कार्यम्, नाल्पपरिकर्मादेः ॥ ४०५८ ॥ अथ मुखद्वारमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy