________________
भाष्यगाथाः ४०४६-५३] तृतीय उद्देशः ।
११०७ गतं जघन्ययतनाद्वारम् । अथ "चोयग असई असिव" (गा० ४०००) ति द्वारद्वयमाह
थूल सुहुमेसु वुत्तं, पच्छित्तं तेसु चेव भरिओ वि ।
जं कप्पइ त्ति भणिअं, ण जुञ्जई पुग्यमवरेणं ॥ ४०५० ॥ _स्थूल-सूक्ष्मेषु बीजेषु पूर्व सप्रपञ्चं प्रायश्चित्तमुक्तम् , सम्प्रति 'तैरेव' बीजै तोऽपि यथाकृतप्रतिग्रहो ग्रहीतुं कल्पते, 'इति' एवं यद भणितं तदेतद् युष्माकं पूर्वमपरेण न युज्यते । ॥ ४०५० ॥ गुरुराह
चोयग! दुविहा असई, संताऽसंता य संत असिवादी ।
इयरा उ झामियाई, संते भणिया उसा सोही॥ ४०५१ ।। हे नोदक! द्विविधा असत्-सदसत्ता असदसत्ता च । तत्र सदसत्ता नाम यत्र ग्रामे नगरे वा भाजनानि सन्ति तत्र अपान्तराले वा अशिवम् , खग्रामे वा येषु कुलेषु लभ्यन्ते 10 तेष्वशिवम् , आदिशब्दादवमौदर्यादीनि तत्र अपान्तराले वा विद्यन्ते, अथवा अस्ति भाजनं परं नवरङ्गत्वाद् न तावद् वहति, यद्वा तद् भाजनमतिलघुतरमतो न तेन संस्तीर्यते । 'इतरा' असदसत्ता सा पुनरियम्-पात्रं 'ध्यामितं' प्रदीपनकेन दग्धम् , आदिशब्दात् स्तेनैर्वाऽपहृतं भनं वा । एवंविधयोर्द्वयोरप्यसत्तयोर्यथाकृतमागन्तुकबीजानां भृतमपि कल्पते, न पुनः शुद्धमल्पपरिकर्म । यत् पुनरस्माभिः 'शोधिः' प्रायश्चित्तमुक्तं सा द्विविधाया असत्ताया अभावे सति 15 पाने यो गृह्णाति तद्विषया मन्तव्या ॥ ४०५१ ॥ किञ्च
जो उ गुणो दोसकरो, न सो गुणो दोसमेव तं जाणे ।
अगुणो वि होति उ गुणो, विणिच्छयो सुंदरो जस्स ॥ ४०५२ ॥ 'यस्तु' यः पुनर्गुणः 'दोषकरः' आत्मोपघातादिदोषजनकः स परमार्थतो गुण एव न भवति किन्तु दोषमेव तं जानीयात् , दोषकारणत्वात् ; यस्य तु 'विनिश्चयः' निर्वाहः सुन्दरः 20 स कथञ्चिद्गुणोऽपि परिणामसुन्दरतया गुण एव भवति, गुणकारणत्वात् ; एवमिहापि यथाकृते यद्यपि तान्यागन्तुकबीजानि यतनयाऽन्यत्र सङ्कामयतः खल्पः सङ्घनदोषस्तथापि न तत्र सूत्रार्थयोः परिमन्थः, न च छेदन-भेदनादिना आत्मोपघातः, अपि च तद् गृहीतं सत् तस्यामेव वेलायां भक्त-पानग्रहणे उपयुज्यते, एवं सदोषमपि तद् बहुगुणम् । अल्पपरिकर्मादौ तु परिकhमाणे सूत्रार्थपरिमन्थः, छेदनादिनाऽऽत्मोपघात इत्यादयो बहवो दोषाः, अतः सगु- 25 णमपि तद् बहुदोषतरम् ॥ ४०५२ ॥ अथ “पमाण उवओग छेयण" ( गा० ४०००) ति द्वारमाह
__ असइ तिगे पुण जुत्ते, जोगे ओहोवही उवग्गहिए ।
छयण-मेयणकरणे, सुद्धो अं निजरा विउला ॥ ४०५३ ॥ यथाकृतं त्रीन् वारान् मार्गितं परं न लब्धम् , ततो वारत्रिकं 'योगे' व्यापारे 'युक्ते' 30 कृतेऽपि यथाकृतस्य 'असति' अप्राप्तौ, 'पुनःशब्दः' अवधारणे, स चैतदवधारयति-वारत्रयात् परतोऽल्पपरिकर्मकमेव ग्रहीतव्यम् । अथ तदपि न प्राप्यते ततो बहुपरिकर्मापि ग्राह्यम् । १°श्चयो न बहिः सुन्द' भा० का विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org