________________
११०६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृत्स्नाकृत्नप्रकृते सूत्रम् ८ इह हस्तः षड् भागाः क्रियते-तत्र प्रथमपर्वाण्यैको भागः, द्वितीयपर्वाणि द्वितीयः, अङ्गुलिमूलानि तृतीयः, आयुषो रेखा चतुर्थः, अङ्गुष्ठवुघ्नं पञ्चमः, अङ्गुष्ठमतिक्रम्य शेषः सर्वोऽपि षष्ठो भागः । एवं षड्भागीकृत हस्ते प्रथमपर्वमात्रेषु सूक्ष्मबीजेषु ‘पञ्चकं' पञ्चरात्रिन्दिवानि प्रायश्चित्तम् , द्वितीयपर्वमात्रेषु दशरात्रिन्दिवानि, अङ्गुलिमूलेषु पञ्चदशरात्रिन्दिवानि ॥ ४०४४ ॥ 5 आयूरेषामात्रेषु विंशतिरात्रिन्दिवानि, अङ्गुष्ठवुध्नमात्रेषु पञ्चविंशतिरात्रिन्दिवानि, प्रसूतिप्रमाणेषु मासलघु, चतुःप्रसूतिप्रमाणेषु चत्वारो मासा लघवः ॥ ४०४५ ॥ एवं सूक्ष्मबीजेषु प्रायश्चित्तमुक्तम् , अथ बादरवीजेषु तदेवातिदिशन्नाह
एसेव कमो नियमा, थूलेसु वि वीयपव्यमारद्धो ।
___ अंजलि चउक्क लहुगा, ते चिय गुरुगा अणंतेसु ॥४०४६ ॥ 10 एष एव क्रमो नियमात् 'स्थूलेष्वपि' चणकादिबीजेषु मन्तव्यः । नवरं द्वितीयपर्वाण्यादौ कृत्वाऽत्र प्रायश्चित्तक्रमः प्रारभ्यते, तद्यथा-द्वितीयपर्वमात्रेषु बादरबीजेषु पञ्चकम् , अङ्गुलिमूलमात्रेषु दशकम् , आयूरेषामात्रेषु पञ्चदशकम् , अङ्गुष्ठमूलमात्रेषु विंशतिः, प्रसूतिप्रमाणेषु भिन्नमासः, अञ्जलिमात्रेषु मासलघु, अञ्जलीचतुष्कपरिमाणेषु चतुर्लघु, एतत् प्रत्येकबीजविषयं भणितम् । अनन्तबीजेषु सूक्ष्म-स्थूरेषु यथाक्रममेतान्येव प्रायश्चित्तानि गुरुकाणि 16 कर्त्तव्यानि ॥ ४०४६ ॥
निकारणम्मि एए, पच्छित्ता वन्निया उ बीएसु ।
नायव्या अणुपुव्वी, एसेव उ कारणे जयणा ॥४०४७ ॥ एतानि प्रायश्चित्तानि निष्कारणे 'बीजेषु' बीजयुक्ते पात्रके गृह्यमाणे वर्णितानि । 'कारणे तु' पात्रकस्यासत्तालक्षणे 'आनुपूर्व्या' प्रथमपर्वादिरूपया 'एषैव' पञ्चकादिका यतना कर्तव्या 20॥ ४०४७ ॥ अथ यथाकृते प्रथमपर्वप्रमाणानि बीजान्यल्पपरिकर्मकं च शुद्ध प्राप्यतेऽनयोः कतरद् ग्रहीतव्यम् ? उच्यते-यथाकृतं ग्राह्यं नाल्पपरिकर्म । एवं द्वितीयपर्वादिष्वपि वक्तव्यम् , यावद् बीजैराकण्ठभृतमपि यथाकृतं ग्राह्यम् । तथा चाह
वोसर्दु पि हु कप्पइ, वीयाईणं अधाकडं पायं ।
न य अप्प-सपरिकम्मा, तहेव अप्पं सपरिकम्मा ॥ ४०४८ ॥ 26 आगन्तुकानां बीजादीनां 'वोसट्टमपि' आकण्ठभृतमपि यथाकृतं पात्रं कल्पते न चाल्प.
परिकर्म-सपरिकर्मणी शुद्धे अपि । 'तथैव' एवमेवाल्पपरिकर्मकमागन्तुकबीजानां भृतमपि कल्पते, न च सपरिकर्मकं शुद्धमपि ॥ ४०४८ ॥ अत्रैवैदम्पर्यमाह
थूला वा सुहुमा वा, अवहंते वा असंथरंतम्मि ।
आगंतुअ संकामिय, अप्पबहु असंथरंतम्मि ॥ ४०४९॥ 30 यथाकृते स्थूलानि वा' चणकादीनि वीजानि भवन्तु 'सूक्ष्माणि वा' सर्पपादीनि, यदि
तस्य प्राक्तनं भाजनं नवरङ्गत्वादवहमानकम् , तेन वा भाजनेन न संस्तरति, सर्वथा वा भाजनं तस्य नाम्ति, एवमसंस्तरतोऽल्पबहुत्वं तोलयित्वा बहुगुणकरमिति कृत्वा यथाकृतमागन्तुकबी जानां भृतमपि बीजानि यतनयाऽन्यत्र सङ्कमय्य ग्रहीतुं कल्पते ॥ ४०४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org