________________
भाष्यगाथाः ४०२६-३३] तृतीय उद्देशः ।
११०३ गृह्णाति । अथ नास्ति गीतार्थस्ततो यः ‘पात्रकल्पिकः' गृहीतपात्रैषणासूत्रार्थः स गृह्णाति । तस्याप्यभावे यो मेधावी तस्य पात्रग्रहणमुत्सर्गतोऽपवादतश्च कथ्यते ततोऽसौ पात्रं गृह्णीयात् ॥ ४०२९ ॥ अथ पौरुषीद्वारमाह
हुंडादि एकबंधे, सुत्तत्थे करेंतें मग्गणं कुजा ।
दुग-तिगबंधे सुत्तं, तिण्हुवरि दो वि वजेजा ॥ ४०३० ॥ 5 यत् पात्रं हुण्डम् , आदिशब्दाद् दुष्पुतं कीलकसंस्थितं शबलं च, यच्चैकबन्धम् , एतानि परिभुञ्जानः सूत्रा-ऽर्थपौरुष्यौ द्वे अपि कुर्वन् यथाकृतादेः पात्रस्य मार्गणां कुर्यात् । अथ द्विविधं त्रिविधं (द्विवन्धं त्रिबन्धं ) वा पात्रं परिभुज्यमानमस्ति ततः सूत्रपौरुषीं कृत्वाऽर्थपौरुषी हापयित्वा मार्गयति । अथ त्रयाणां बन्धानामुपरि चतुःप्रभृतिस्थानेषु तत् पात्रं बद्धमस्ति। ततः सूत्रार्थपौरुष्यौ द्वे अपि वर्जयेत् , सूर्योदयादारभ्यैवापरं पात्रकं मार्गयतीति ॥ ४०३०॥10 अथ कालद्वारमाह
चत्तारि अहाकडए, दो मासा होति अप्पपरिकम्मे ।
तेण पर मग्गियम्मि य, असति ग्गहणं सपरिकम्मे ॥ ४०३१॥ हुण्ड-शबलताद्यपलक्षणयुक्तं पात्रं धारयता चतुरो मासान् यथाकृतं मार्गयितव्यम् । चतुर्यु मासेषु पूर्णेष्वपि यदा यथाकृतं न प्राप्यते तदा द्वौ मासावल्पपरिकर्मगवेषणे भवतः । ततः 16 परं मार्गितेऽप्यल्पपरिकर्मण्यप्राप्ते षण्मास्यां पूर्णायां सपरिकर्मणो ग्रहणं करोति ॥ ४०३१ ॥ तच्च कियन्तं कालं गवेषणीयम् ? इत्याह
पणयालीसं दिवसे, मग्गित्ता जा न लब्भए ततियं ।
तेण परेण न गिण्हइ, मा पक्खेणं न रज्जेजा ॥४०३२ ॥ पञ्चचत्वारिंशतं दिवसान् 'तृतीयं बहुपरिकर्म मार्गयित्वा यदि न लभ्यते ततः किम् ? 20 इत्याह---"तेण परेण" त्ति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततः पञ्चचत्वारिंशतो दिवसेभ्यः परं बहुपरिकर्म न गृह्णाति । कुतः ? इति चेद उच्यते-यथाकृतगवेषणकालादारभ्य सार्धसप्तसु मासेषु गतेषु पञ्चदशभिर्दिवसैवर्षारात्रो भवति, तेन च पक्षमात्रेण कालेन मा तत् पात्रकं 'न रज्येत' मा लिप्तं सत् प्रगुणीभवेत् । किमुक्तं भवति ?-वर्षाकाले पात्रस्य परिकर्म कर्तुं ने लभ्यते, बहुपरिकर्मणि च पात्रे छेदन-भेदनादि प्रभूतं परिकर्म विधेयम् , तच्च पक्षमात्रेण न 25 कत्तुं पार्यते, अतः पञ्चचत्वारिंशदिवसेभ्यः परतो न ग्रहीतव्यमिति ॥ ४०३२ ॥ गतं कालद्वारम् , अथाकरद्वारमाह
कुत्तीय सिद्ध-निण्हग-पवंच-पडिमाउवासगाईसु ।
कुचियवजं वितियं, आगरमाईसु वा दो वि ॥ ४०३३ ।। यथाकृतं पात्रकं कुत्रिकापणे मार्गयितव्यम् । सिद्धपुत्रकस्य वा निद्दवस्य वा प्रपञ्चश्रमणस्य वा 30 १ "दुबंध तिवंधणं च सुन्तपोरिणि करेंनो अस्थपोरिसिं अकरतो वि मग्गिजा" इति चूर्णी विशेषचूर्णां च ॥ २ नद्ध भा० का विना । ३ न कल्पते, बहु' भा० का ० ॥ यितुं सिद्व' भा० कां० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org