SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ११०२ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्स्नाकृत्स्नप्रकृते सूत्रम् ८ पुष्पकमूले न प्रतिष्ठितम् , कीलकसंस्थानं तु-कर्पराकारं कीलकवद् दीर्घम् , ईदृशे पात्रे गणे चरणे वा स्थानं नास्तीति निर्दिशेत् ॥ ४०२४ ॥ 'पद्मोत्पले' अधः पद्मोत्पलाकारपुष्पकयुक्ते साधूनामकुशलं भवति । सव्रणे व्रणमादिशेत् , पात्रकखामिनो व्रणो भवतीति भावः । अन्तर्बहिर्वा दग्धे सति पात्रके मरणं निर्दिशेत् ६॥ ४०२५ ॥ अत्रैव प्रायश्चित्तमाह दड्डे पुप्फगभिन्ने, पउमुप्पल सधणे य चउगुरुगा। सेसगभिन्ने लहुगा, हुंडादीएसु मासलहू ॥४०२६ ।। अन्तर्बहिर्वा दग्धे पात्रे तथा पुष्पकं-पात्रकस्य नाभिः तत्र यद् भिन्नं तस्मिन् तथा पद्मोत्पलाकारपुष्पकयुक्ते सव्रणे च प्रत्येकं चतुर्गुरुकाः । शेषेषु-पुष्पकव्यतिरिक्तेषु कुक्ष्यादि10 स्थानेषु भिन्ने चतुर्लघुकाः । हुण्डे आदिशब्दाद् वाताविद्धे दुप्पुते कीलकसंस्थाने अवर्णाढ्ये शबले च मासलघु ॥ ४०२६ । गतं लक्षणा- लक्षणद्वारम् , अथ त्रिविधोपधिद्वारमाह तिविहं च होइ पायं, अहाकडं अप्प-सपरिकम्मं च । पुव्वमहाकडगहणं, तस्सऽसति कमेण दोणियरे ॥४०२७ ॥ त्रिविधं च भवति पात्रम्-अलाबुमयं दारुमयं मृत्तिकामयम् । पुनरेकैकं त्रिविधम्15 यथाकृतमल्पपरिकर्म सपरिकर्म च । पूर्व यथाकृतस्य ग्रहणम् , तस्याभावे क्रमेणेतरे द्वे पात्रके ग्रहीतव्ये, प्रथममल्पपरिकर्म तदप्राप्तौ बहुपरिकर्मापीत्यर्थः ॥ ४०२७ ॥ विपर्यस्तद्वारमाह तिविहे परूवियम्मि, वोचत्थे गहणे लहुग आणादी । छेदण-भेदणकरणे, जा जहिँ आरोवणा भणिता ॥ ४०२८॥ 20 यथाकृतादिभेदात् त्रिविधे पात्रे प्ररूपिते सति ततो विपर्यस्तग्रहणे चतुर्लघुकाख्यं प्रायश्चित्तम् , आज्ञादयश्च दोषा वक्तव्याः । तत्र यथाकृतादिप्ररूपणं तावद् विधीयते-यथाकृतं नाम-पूर्वकृतमुखं प्रदत्तलेपं च सर्वथा परिकर्मरहितम् , अल्पपरिकर्म तु पात्रं तदुच्यते यदर्धाङ्गुलं यावत् छिद्यते, अर्धाङ्गलात् परतश्छिद्यमानं बहुपरिकर्मकम् । पुनरेकैकं त्रिधा उत्कृष्ट-मध्यम-जघन्यभेदात् । तत्रोत्कृष्टस्य यथाकृतस्योत्पादनाय निर्गतस्तस्य योगमकृत्वाऽल्प25 परिकर्म गृह्णाति चतुर्लघवः, बहुपरिकर्म गृह्णाति चतुर्लघवः । यदा यथाकृतं योगे कृतेऽपि न प्राप्यते तदाऽल्पपरिकर्मणो योगमकृत्वा बहुपरिकर्म गृह्णाति चतुर्लघव आज्ञादयश्च दोषाः, एवं मध्यम-जघन्ययोरपि भावना कर्तव्या । नवरं मध्यमस्य विपर्यासेन ग्रहणे मासलघु, जघन्यस्य विपर्यासग्रहणे पञ्चकम् । अपि च सपरिकर्मणि पात्रे छेदन-भेदनादि कुर्वतो या यत्रा रोपणा पीठिकायां पात्रकल्पिकद्वारे (गा० ६६८) भणिता सैवेहापि मन्तव्या ॥४०२८॥ 30 अथ 'कः' इति द्वारं विवृणोति को गेण्हति गीयत्थो, असतीए पायकप्पिओ जो उ । उस्सग्ग-ऽववाएहिं, कहिजती पायगहणं से ॥ ४०२९ ॥ कः संयतः पात्रं गृह्णाति ? । सूरिराह-'गीतार्थः' परिज्ञातसकलच्छेदश्रुतार्थः पात्रकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy