________________
११००
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्लाकृत्तप्रकृते सूत्रम् ८ दद्यात् , तत्र तद अतिरिक्तभाजनं भक्तव्यं सेवनीयम् ।। ४०१५ ॥ अथापवादद्वारमभिधित्सुथैः कारणैरधिकं हीन वा धारयति तानि तावद् दर्शयति
अन्नाणे गारवे लुद्धे, असंपत्ती य जाणए ।
लहुओ लहुया गुरुगा, चउत्थों सुद्धो उ जाणओ ॥ ४०१६ ॥ यदि अज्ञानेन हीना-ऽधिकैप्रमाणं भाजनं धारयति ततो लघुमासः । गौरवेण धारयतश्चत्वारो लघवः । लोभनं-लुब्धं लोभ इत्यर्थः, तेन धारयतश्चत्वारो गुरवः । असम्प्राप्तिर्नाम-प्रमाणयुक्तस्य पात्रस्याप्राप्तिस्तस्यां यो हीना-ऽतिरिक्तं धारयति सः 'चतुर्थः' असम्प्राप्तिधारकः शुद्धः । तथा ज्ञायको नाम-पात्रलक्षणा-ऽलक्षणवेदी स लक्षणयुक्तं हीना-ऽधिकप्रमाणमपि धारयन् शुद्ध इति द्वारश्लोकसमासार्थः ॥ ४०१६ ॥ अथैनमेव विवृणोति10
हीणा-ऽदिरेगदोसे, अजाणओ सो धरिज हीण-ऽहियं ।
पगईय थोवभोगी, सति लाभे वा करेतोमं ॥ ४०१७ ॥ पात्रस्य ये हीना-ऽतिरिक्तविषया दोषाः पूर्वमुक्तास्तान् यो यतिन जानीते स हीना-ऽधिकप्रमाणं धारयेत् । तथा कश्चिद् ऋद्धिगौरवगुरुकः सत्यपि भक्त-पानलाभे प्रकृत्यैव स्तोकभोजी _ 'खल्पाहारोऽयं महात्मा' इति ख्यापनार्थम् 'अवमं' हीनप्रमाणं भाजनं करोति ॥ ४०१७ ॥ 15 किं पुनस्तस्य ऋद्धिगौरवम् ? इत्याह-~
ईसरनिक्खंतो वा, आयरिओ वा वि एस डहरेणं ।
इति गारवेण ओमं, अइप्पमाणं चिमेहिं तु ॥ ४०१८॥ 'ईश्वरनिष्क्रान्तो वा' राजादिमहर्द्धिकप्रबजितः, आचार्यों वा एष साधुर्यदेवं 'डहरेण' लघुना भाजनेन भिक्षां पर्यटति, 'इति' एवं 'गौरवेण' यशःप्रवादलिप्सालक्षणेनावमं भाजन 20 करोति । अतिप्रमाणं पुनः पात्रममुना कारणेन करोति ॥ ४०१८ ॥
__ अणिगृहियबल-विरिओ, वेयावच्चं करेति हों ! समणो ।
मम तुल्लो न य कोयी, पसंसकामी महल्लेणं ॥ ४०१९ ॥ 'अथ' इत्युपन्यासे । अहो! अयं श्रमणः पुण्यात्मा अनिगूहितबल-वीर्यों महता भाजनेन सकलस्यापि गच्छस्य वैयावृत्यं करोति, एवं प्रशंसाकामी नास्ति कोऽपि मम बाहुबलमङ्गीकृत्य 25 'तुल्यः' सदृश इति ख्यापनार्थमतिरिक्तं भाजनं करोति ॥ ४०१९ ।। अथ लुब्धपदं व्याचष्टे-~
अंतं न होइ देयं, थोवासी एस देह से सुद्धं ।
उक्कोसस्स व लंभे, कहि घेच्छ महल्ल लोभेणं ॥ ४०२० ॥ क्षुल्लकभाजनेन गृहाङ्गणस्थितं साधुं दृष्ट्वा गृहखामी भणति—'स्तोकाशी' स्तोकाहारोऽयं 30 मुनिः अतोऽस्यान्तप्रान्तं भक्तं न देयम् , किन्तु 'शुद्धम्' उत्कृष्टद्रव्यम् अस्य प्रयछंथ, एवं
१ सुराह-अन्ना भा० ॥२°धिकरणं भाज भा० का. विना ॥३ - एतचिहान्तर्गतमवतरणं भा० नास्ति ॥ ४ अहसताभा. विना॥ ५ एतचिहान्तर्गतमवतरणं भा० नास्ति । ६°च्छस्व, एवं मो० ले । च्छध्वम् , एवं भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org