________________
तृतीय उद्देशः ।
१०९९
भाष्यगाथाः ४००८-१५ ] चम्प्यमानं वा पात्रकं भज्येत । 'शिखरं वा' पात्रस्योपरि भक्तस्य शिखां कुर्वन्तं दृष्ट्वा लोको ब्रूयात् -- अहो ! असन्तुष्ट । वहुभक्षका अमी; एवमुड्डाहो भवेत् । एते डहरे भाजने दोषाः ॥ ४०११ ।। अथैनामेव भावयति-
धुवणा-धुवणे दोसा, वोसते य काय आउसिणे ।
सुक्खे लग्गाऽजीरग, कोडिय सिहरे य उड्डाहो ॥ ४०१२ ॥
अतिभृतत्वेन तक्र-तीमनादीनि प्रलोठयता यत् पात्रकं लेपकृतीकृतं तस्य धावना -ऽधावनयोरुभयोरपि दोषाः । तत्र धावने प्लावनादयः, अभावने तु रात्रिभोजनत्रतभङ्गः । “वोसते य" परिगलति भक्त-पाने पण्णां कायानां विराधना । अथवा तेनोष्णेन परिगलती दिग्धशरीरस्यात्मविराधना । शुष्के च भक्तेऽतिमात्रं भुज्यमाने गलके उदरे वा लग्नेऽजीर्ण भवेत्, तत्र च ग्लानारोपणा । " कोडितं " गाढं चप्पितं सत् तत् पात्रकं भज्येत । 'शिखरे च' भक्तस्योपरि 10 शिखायां विधीयमानायां उड्डाहो भवति । यत एवमादयो दोषास्ततः प्रमाणयुक्तमेव ग्रहीतव्यम् ॥ ४०९२ ॥ कीदृशं पुनस्तत् प्रमाणम् ? इत्याशङ्कय प्रमाणमाह -
तिनि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । [ नि. ६८९ ] एतो हीण जहन्नं, अतिरेगयरं तु उक्कोसं ॥ ४०१३ ॥
पात्रस्य परिधिर्दवरकेण मीयते, तत्र च मिते यदा स मानदवरकस्तिस्रो वितस्तयश्चत्वार्य - 15 ङ्गुलानि च भवन्ति तदा तस्य 'भाजनस्य' पात्रकस्य तद् मध्यमप्रमाणम् । 'इतः' मध्यमप्रमाणाद् हीनं यत् पात्रं तद् जघन्यम् । 'अतिरिक्ततरं तु' मध्यमप्रमाणाद् बृहत्तरमुत्कृष्टम् ॥ ४०१३ ॥ अथवा
उक्को सतिसामासे, दुगाउअद्वाणमागओ साहू | [नि. ६९०] चउरंगुलव भत्त-पाण पज्जत्तियं हेट्ठा ।। ४०१४ ॥
उत्कृष्टस्तृङ्मासः स उच्यते यस्मिन् अतीवप्रबला पिपासा समुल्लसति, स च ज्येष्ठ आषाढ वा; तस्मिन् काले द्विगव्यूतप्रमाणादध्वन आगतो यः साधुः तस्येदृशकाला - ध्वखिन्नस्य यत् 'चतुरङ्गुलवर्जम्' उपरितनैश्चतुर्भिरङ्गुलैर्न्यनमधस्ताद् भक्त-पानस्य भृतं सत् पर्याप्तं भवति तदित्थम्भूतं पात्रकस्य प्रमाणं मन्तव्यम् ॥ ४०९४ ॥ -
एयं चैव पमाणं, सविसेसयरं अणुग्गहपवत्तं ।
कतारे दुभिक्खे, रोहगमाईसु भइयव्वं ॥ ४०९५ ॥
एतदेव प्रमाणं 'सविशेषतरं' समधिकतरं यस्य भाजनस्य भवति तद् 'अनुग्रह प्रवृत्तं ' गच्छस्यानुग्रहार्थं प्रवर्त्तते । कथम् ? इत्याह – 'कान्तारे' महत्यामटव्यां वर्त्तमानस्य तदुत्तीर्णस्य वा गच्छस्यानुग्रहार्थं तद् गृहीत्वा वैयावृत्यकरः पर्यटति, दुर्भिक्षेऽप्यलभ्यमानायां भिक्षायां तद् गृहीत्वा चिरमटित्वा बालादिभ्यो ददाति एवं नगरस्य रोधके सञ्जाते आदिशब्दादपरेषु 30 वा भयविशेषेषु कश्चिद् दानश्रद्धालुर्यावदेकस्मिन् भाजने माति तावत् प्रचुरतरमपि भक्त-पानं
१ °अथैतदेव भा॰ भा॰ ॥ २ नादि प्रलोक० | 'नादिना प्रलो' मा० ॥ ३ 'ता दुग्ध भा० कां० ताटी० ॥ ४ चंपितं भा० ॥ ५°दा तत् पात्रकं मध्य भा० ॥
Jain Education International
5
For Private & Personal Use Only
20
25
www.jainelibrary.org