________________
१०९८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्लाकृत्तप्रकृते सूत्रम् ८
ईर्यायामनुपयुक्तः स्थाणुना कण्टकेन वा विध्यते, विषमे वा भूभागे निपतेत् , गवादिकृताभिघातादींश्च दोषान् न प्रेक्षते, इयमात्मविराधना । संयमविराधना त्वेवम्-~-अनुपयुक्त ईयां न शोधयेत् , भाजनाच्च भक्तं पानकं वा परिगलेत् , तच्च प्रगलितं विलोक्य स्तेनाः 'परि
पूर्ण भृतमिदं भाजनमस्ति' इति परिभाव्यापहरेयुः । अथ कुत्रापि प्रस्खलितस्ततो भाजनभेदः 5 षट्कायविराधना वा भवेत् ॥ ४००७ ॥
गुरु पाहुण खम दुब्बल, बाले वुड्ढे गिलाण सेहे य ।
लाभाऽऽलाभऽद्धाणे, अणुकंपा लाभवोच्छेदो ॥ ४००८॥ प्रमाणहीनं भाजनं धारयता गुरु-प्राघुणक-क्षपक-दुर्बला बालो वृद्धो ग्लानः शैक्षश्च परित्यक्ता मन्तव्याः । तथा क्षेत्रप्रत्युपेक्षणार्थं प्रेषितस्तेन लघीयसा भाजनेन कथं लाभा-ऽलाभपरीक्षा 10 करोतु ? । अध्वनि प्रपन्नानां सङ्खडिर्भवेत् , तत्र पर्याप्ते लभ्यमाने लघौ भाजने किं नाम
गृह्णातु ? । छिन्नाध्वनि वा कश्चिद् दानश्रद्धालुरनुकम्पया यद् यदुपस्थाप्यते तत् तद् भाजनं भरति, तत्र गच्छसाधारणं भाजनमुपस्थापयितव्यम् । हीनभाजने पुनरुपस्थाप्यमाने तस्य लाभस्य व्यवच्छेदो भवति, निर्जरायाश्च लाभो न भवतीति सङ्घहगाथासमासार्थः ।। ४००८ ॥
अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाह16
गुरुगा य गुरु-गिलाणे, पाहुण-खमए य चउलहू होति ।
सेहस्स होइ गुरुओ, दुब्बल जुयले य मासलहू ॥४००९ ॥ गुरूणां ग्लानस्य चोपष्टम्भमकुर्वतश्चतुर्गुरुकाः । प्राघुणकस्य क्षपकस्य चोपष्टम्भाकरणे चतुर्लघवो भवन्ति । शैक्षस्यादाने मासगुरुकः । दुर्बलस्य 'युगलस्य च' बाल-वृद्धलक्षणस्यादाने मासलघु ॥ ४००९॥
. अप्प-परपरिचाओ, गुरुमाईणं अदेंत-देतस्स ।
अपरिच्छिए य दोसा, वोच्छेओ निजराऽलाभे ॥ ४०१० ॥ लघुतरभाजनगृहीतं गुर्वादीनां यदि ददाति तत आत्मपरित्यागः, अथ स्तोकमिति कृत्वा न ददाति ततो गुर्वादीनां परेषां परित्यागः कृतो भवति । तथा प्रमाणहीनं भाजनं गृहीत्वा
क्षेत्रप्रत्युपेक्षणार्थं गतः कथं लाभा-ऽलाभं परीक्षताम् ? । ततोऽपरीक्षित क्षेत्रे ये दोषास्ते मन्द26 परीक्षिते मन्तव्याः । अध्वनि प्रपन्नानां च सङ्खडिर्भवेत् , दानश्राद्धो वा कश्चिदनुकम्पया प्रभूतं
भक्त पानं दद्यात्, यद्वा स्वस्थानेऽपि घृतादि साधारणद्रव्यं लभ्येत तत्र लघुतरभाजने भक्त-पानलाभस्य निर्जरायाश्च व्यवच्छेदो भवति ।। ४०१० ॥ अथ क्षुल्लकभाजनस्यैव दोषान्तराभिधानायाह. लेवकडे वोसढे, सुक्खे लग्गे य कोडिते सिहरे ।
एए हवंति दोसा, डहरे भाणे य उड्डाहो ॥४०११ ॥ तकादिना तदवमप्रमाणं भाजनमाकण्ठमापूरितं ततो “वोसट्टे" ति प्रलुठिते तक्रादौ तद् भाजनं लेपकृतं क्रियते । अथ पात्रलेपनभयात् तत्र शुष्कमेव भक्तं गृहाति ततस्तद् भक्तं भुजानस्य गलके उदरे वा लगेत् , लग्ने च तत्राजीणं भवेत् । “कोडियं" ति गाढचम्पितं
20.
30.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org