SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १०९७ भाष्यगाथाः ३९९९-४००७] तृतीय उद्देशः। प्रमाणद्वयातिरिक्ते पात्रे एते दोषाः ॥ ४००२ ॥ तद्यथा--- भारेण वेयणा वा, अभिहणमाई ण पेहए दोसा । रीयाइ संजमम्मि य, छक्काया भाणभेओ य ॥ ४००३ ॥ प्रभूतपात्रवहने भारेणाक्रान्तस्य वेदना, तयाऽर्दितो गो-हस्ति-तुरङ्गमादीनभिघातं-प्रहारं प्रयच्छति, न पश्यति, आदिशब्दात् स्थाणु-कण्टकादीनि न प्रेक्षते, एवमात्मविराधनायां । 'दोषाः । संयमविराधनायाम् । ईर्यादिकं न शोधयति, ततश्च षट्कायविराधना, अनुपयुक्तो वा प्रस्खलितो भाजनभेदमपि विदध्यात् ॥ ४००३ ॥ एते गणनातिरिक्त दोषा उक्ताः, प्रमाणातिरिक्ते तु पात्रे इमे दोषाः भाणऽप्पमाणगहणे, भुंजणे गेलनऽभुंज उज्झिमिगा। एसणपेल्लण भेओ, हाणि अडते दुविह दोसा ॥ ४००४ ॥ 10 "भाणऽप्पमाण' त्ति अकारप्रश्लेषाद् 'अप्रमाणस्य अतिबृहत्तरप्रमाणस्य भाजनस्य ग्रहणे इमे दोषाः-तदतिबृहत्तरं भाजनं परिपूर्णमपि भृत्वा यदि सर्वमपि मुझे ततो ज्वरादिकं ग्लानत्वं भवेत् । अथ न भुङ्क्ते ततः 'उज्झिमिका' परिष्ठापनिका भवति । अतिबृहत्तरं च पात्रं यदा चिरेणापि न पूर्यते तदा एषणाप्रेरणं कृत्वाऽपि बिभृयात् । भरितं चातिभारेण प्रतिस्खल्य भेदमुपगच्छेत् । ततो भाजनेन विना या आत्मनः कार्यपरिहाणिस्तन्निष्पन्नं प्रायश्चित्तम् | 15 गुरुत्वेन चात्म-संयमविराधनालक्षणा द्विविधा दोषा भवन्ति-तत्रात्मविराधनायां पर्यटतोऽतिभारेण कटी-स्कन्धादिकं परिताप्येत, संयमविराधनायामीर्यामशोधयन् षट्कायान् विराधयेत् ॥ ४००४ ॥ गतमतिरिक्तद्वारम् । अथ हीनद्वारमाह हीणप्पमाणधरणे, चउरो मासा हवंति उग्घाया। आणादिणो य दोसा, विराहणा संजमा-ऽऽयाए ॥४००५॥ 20 यत् प्रतिग्रहस्य मात्रकस्य वा प्रमाणं वक्ष्यते ततो हीनं यदि धारयति तदा चत्वारो मासा . उद्धातिमा भवन्ति, एतच्च प्रतिग्रहे मन्तव्यम् । मात्रके तु मासलघु । आह च निशीथचूर्णित् __ पडिग्गहगे चउलहुँ, मत्तगे मासलहुं । आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया ।। ४००५ ॥ इदमेव भावयति ऊणेण न पूरिस्सं, आकंठा तेण गिण्हती उभयं । मा लेवकडं ति पुणो, तत्थुवओगो न भूमीए ॥ ४००६ ॥ अनेन प्रमाणहीनेन 'ऊनेन' अभरितेन नाहमात्मानं पूरयिष्ये, तत आकण्ठात् तत्र भाजने 'उभयमपि' कूरं कुसणं च गृह्णाति । ततो मा पात्रबन्धो लेपकृतो भवत्विति कृत्वा तत्रैव' पात्रकबन्धखरण्टने उपयोगो भवति, न पुनर्भूमौ ॥ ४००६ ॥ अनुपयुक्तस्य चेमे दोषाःखाणू कंटग विसमे, अभिहणमाई ण पेहए दोसे । 30 रीया पगलिय तेणग, भायणभेए य छकाया ॥ ४००७॥ १ > एतदन्तर्गतः पाठः भा० का० एव वर्तते ॥ २ भा० विनाऽन्यत्र-भवेत् 'तत्रै मो० ले. त.. तारी॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy