SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १०९६ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्लालप्रकृते सूत्रम् ८ मन्यदपि वस्त्रमेतत्प्रभावादेव लप्स्ये, एवमेभिः कारणैः 'भृशम्' अत्यर्थ 'कुसत्त्वः' तुच्छधृतिबलो मूर्च्छति, मूर्छातश्च न विवक्षितं वस्त्रं परिभुते ॥ ३९९८ ॥ उक्तो वस्त्रविषयो विधिः, अथ पात्रविषयं तमेवाभिघिरसुराह दव्वप्पमाणअतिरेगहीणदोसा तहेव अववाए । लक्वणमलक्खणं तिविह उवहि वोच्चत्थ आणादी ॥ ३९९९ ॥ को पोरुसी य कालो, आगर चाउल जहन जयणाए । चोदग असती असिव, पमाण उवओग छेयण मुहे य ॥ ४०००॥ द्रव्यमिह-पात्रं तस्य यद् वक्ष्यमाणं प्रमाणं ततोऽतिरिक्ते हीने च पात्रे दोषा वक्तव्याः १। तथैव 'अपवादः' कारणे हीना-ऽतिरिक्तधारणलक्षणः २ । पात्रस्य किं लक्षणम् ! किं 10 वा अलक्षणम् ! ३ । 'त्रिविधः' उत्कृष्टादिभेदाद् यथाकृतादिभेदाद्वा त्रिप्रकार उपधिर्यथा गृह्यते ४ । यथोक्तक्रमाच्च विपर्यस्तेन ग्रणे प्रायश्चित्तमाज्ञादयश्च दोषाः ५ ॥ ३९९९ ॥ तथा "को' त्ति कः पात्रं गृह्णाति ? ६ । “पोरिसि" त्ति बहुबन्धनबद्धं पात्रं धारयता सूत्राऽर्थपौरुष्यौ द्वे अपि हापयित्वाऽपरं पात्रं गवेषणीयम् ७ । "कालो" ति तस्य च गवेषणे कियान् कालः ? इति ८ । 'आकरः' कुत्रिकापणादि यत्र पात्रं गवेष्यमाणं लभ्यते ९ । “चाउल" ति 15 तन्दुलधावनेन उपलक्षणत्वादुष्णोदकादिना वा भावितं किं कल्पते ? न वा ? इति १० । "जहन जयण" ति जघन्यं पञ्चकप्रायश्चित्तम् , जघन्यानि वा-सर्षपादीनि बीजानि तयुक्तमपि पात्रं यतनया ग्रहीतव्यम् ११ । नोदकः प्रेरयति-कथं बीजभृतमपि पात्रमनुज्ञायते ? १२ । सूरिराहे-यदेतद् बीजयुक्तपात्रग्रहणमनुज्ञातं तद् 'असत्तायां' पात्रकस्याभावे, यत्र वा भाजनानि लभ्यन्ते तत्र अपान्तराले वा अशिवम् १३ । “पमाण उवओग छेयण" ति यदि 50प्रमाणयुक्तं पात्रं न लभ्यते तत उपयोगपूर्वकं पात्रस्य च्छेदनं विधाय प्रमाणं विधेयम् १४ । __"मुहे" ति अल्पपरिकर्म-सपरिकर्मकयोर्मुखकरणं सम्भवति न यथाकृते १५ । एवमेतानि द्वाराणि प्ररूपणीयानीति द्वारगाथाद्वयस पार्थः ॥ ४००० ॥ साम्प्रतमेतदेव विवरीषुराह पमाणातिरेगधरणे, चउरो मासा हवंति उग्घाया। आणाइणो य दोसा, विराहणा संजमा-ऽऽयाए । ४००१॥ ॐ प्रमाणातिरिक्तपात्रकस्य धारणे चत्वारो मासा उद्धातिका भवन्ति, आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मविषया ॥ ४००१ ॥ इदमेव भावयति गणणाएँ पमाणेण य, गणणाएँ समत्तओ पडिग्गहओ । पलिमंथ भरुटुंडुग, अतिप्पमाणे इमे दोसा ।। ४००२॥ गणनया प्रमाणेन च पात्रकस्य प्रमाणं द्विविधम् । तत्र गणनायां 'समात्रकः' मात्रकसहितः 30 प्रतिग्रहो मन्तव्यः । अथ इत ऊध तृतीयादिकं पात्रं धारयति ततः परिकर्मण-रङ्गनादौ प्रत्युपेक्षणादिषु च महान् परिमन्थो भवति, अध्वनि बहूनि पात्राणि वमानस्य भारः, बहूपकरणश्च 'उडुण्डुकः' जनोपहास्यो भवति, अहो ! भारवाहकोऽयमिति । तत्र च 'अतिप्रमाणे' १ एतदने ग्रन्थानम्-११००० इति ताटी ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy