________________
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्लाकृतप्रकृते सूत्रम् ८ प्रमाणाद् न्यूनमुपकरणं भवति ततः कार्यस्य विपत्तिः, यत् तेन कल्पादिना कार्य तन्न सिध्यतीति भावः ॥ ३९०० ॥ अथ परिकर्मणिद्वारमाह --
परिकम्मणि चउभंगो, कारणे विहि बितिओं कारणे अविही ।
निकारणम्मि उ विही, चउत्थों निकारणे अविही ॥ ३९९१.॥ 5 परिकर्मणायां चतुर्भङ्गी, गाथायां पुंस्त्वं प्राकृतत्वात् । सा चेयम्-कारणे विधिना परिकर्मणमित्येको भङ्गः, कारणेऽविधिनेति द्वितीयः, निष्कारणे विधिनेति तृतीयः, निष्कारणेऽविधिनेति चतुर्थः ॥ ३९९१ ॥
कारणे अणुन विहिणा, सुद्धो सेसेसु मासिका तिन्नि ।
तव-कालेसु विसिट्ठा, अंते गुरुगा य दोहिं पि ॥ ३९९२ ॥ 10 कारणे विधिना परिकर्मणमनुज्ञातम् , अत एवायं प्रथमो भङ्गः शुद्धः । 'शेषेषु' त्रिषु भङ्गेषु
त्रीणि मासिकानि भवन्ति, नवरं तपः- कालयोविशिष्टानि-तत्र द्वितीयभने कालगुरुकम् , तृतीये तपोगुरुकम् , 'अन्त्ये' चतुर्थभने 'द्वाभ्यामपि' तपः कालाभ्यां गुरुकम् । अत्र चे गर्गरसीवनादिकम् अविधिपरिकर्मणं मन्तव्यम् । एकसरा द्विसरी ऋषकण्टका च सीवनिका विधिपरिकर्मणं समनुज्ञातम् ॥ ३९९२ ॥ विभूषाद्वारमाह15 उदाहडा जे हरियाहडीए, परेहि धोयाइपया उ वत्थे ।
भूसानिमित्तं खलु ते करिति, उग्घातिमा वत्थें सवित्थरा उ ॥ ३९९३ ॥ प्रथमोदेशके हताहतिकासूत्रे (सू० ४५) 'परैः' स्तेनैः कृतानि धौतादिपदानि यानि वस्त्रे उदाहृतानि तानि यद्यात्मनो विभू सानिमित्तं करोति तदा सविस्त - राश्चत्वार
उद्घातिमा मासा भवन्ति । इयमत्र भावना-विभूषानिमित्तं यद्यात्मीयं वस्त्रं प्रक्षालयति रजति 20 घृष्टं मृष्टं वा करोति पटवासादिना वा वासयति तदा चतुर्लघुकम् । सविस्तरग्रहणाद् धौतादिपदानि कुर्वतो या आत्मविराधना तन्निप्पन्नमपि प्रायश्चित्तम् ॥ ३९९३ ॥ किमर्थं पुनर्विभूषामासेवते ? इत्याह
मलेण पत्थं बहुणा उ वत्थं, उज्झाइगो हं चिमिणा भवामि ।
हं तस्स धोव्वम्मि करेमि तत्ति, वरं न जोगो मलिणाण जोगो ॥ ३९९४ ॥ 25 इदं मदीयं वस्त्रं बहुना मलेन 'ग्रस्तम्' आपूरितम् , अतोऽनेनाहं “उज्झाइओ" विरूपो भवामि । यतश्चाहं विरूप उपलभ्ये ततः 'तस्य' वस्त्रस्य धौतव्ये तंप्तिमहं करोमि, येन गोमूत्रादिना शुध्यति तदानयामीत्यर्थः । कुतः ? इत्याह-वरं मे वस्त्रेण सह न योगः, परं मलिनवस्त्राणां योगो न वरम् , मलिनवस्त्रप्रावरणादप्रावरणमेव श्रेय इति भावः । कारणे तु वस्त्रं धावन्नपि शुद्धः ॥ ३९९४ ॥
१°कर्मद्वा भा• कां०॥ २ च धर्घरसी मो० ले । “अविधीए गग्गरसिव्वणादि, विधी असकंटा एगसरिया बिसरिया य" इति चूर्णौ । “अविही गग्गरसिव्वणा-तुण्णणाई य । विही ऋसकंटा एगसरिगा बिसरिगा य” इति विशेषचूर्णी ३ रा ऊषक मो० ले० ताटी० ॥ ४॥ एतदन्तर्गतः पाठः भा० का. एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org