________________
15
भाष्यगाथाः ३९८३-९०] तृतीय उद्देशः ।
१०९३ ॥ ३९८५ ॥ इदमेव स्पष्टयति
तिनि कसिणे जहन्ने, पंच य दढदुबलाइँ गेण्हेजा।
सत्त य परिजुन्नाई, एयं उक्कोसगं गहणं ॥ ३९८६ ॥ कृत्सानि नाम-घनमसृणानि यैरन्तरितः सविता न दृश्यते ईदृशानि त्रीणि वस्त्राणि जघन्यतो गृह्णीयात्, यानि तु दृढदुर्बलानि तानि पञ्च गृह्णीयात् , यानि परिजीर्णानि तानि सप्त । एतदुत्कृष्टं ग्रहणं मन्तव्यम् ॥ ३९८६ ॥ -4 कीदृशं पुनरुपधिं भिक्षुर्धारयति ? इत्याह -»
भिन्नं गणणाजुत्तं, पमाण इंगाल-धूमपरिसुद्धं ।।
उवहिं धारऍ भिक्खू, जो गणचिंतं न चिंतेइ ॥ ३९८७ ॥ 'भिन्नं नाम' सदशं सकलं वा यन्न भवति, गणनायुक्तं' गणनाप्रमाणोपेतम् , प्रमाणेन 10 च-यथोक्तदैर्घ्य-विस्तरविषयमानेन युक्तमित्यनुवर्तते, तथा 'अङ्गार-धूमाभ्यां स राग-द्वेष. परिणामाभ्यां » परि-समन्तात् शुद्धं-विरहितम् , एवंविधमुपधिं स भिक्षुर्धारयेत् , यो गणचिन्तां न चिन्तयति, सामान्यसाधुरिति भावः । यस्तु गणचिन्तकस्तस्य न प्रतिनियतमुपधिप्रमाणम् ॥ ३९८७ ॥ तथा चाह
गणचिंतगस्स एत्तो, उक्कोसो मज्झिमो जहन्नो य ।
सव्वो वि होइ उवही, उवग्गहकरो महाणस्स ॥ ३९८८ ॥ गणचिन्तकः-गणावच्छेदिकादिस्तस्य सत्तायामत ऊद्धं उत्कृष्टो मध्यमो जघन्यश्च 'सर्वोऽपि' औधिक-औपग्रहिकश्वोपधिर्महाजनस्योपग्रहकरो भवति ॥ ३९८८ ॥ इदमेव भावयति
आलंबणे विसुद्धे, दुगुणो तिगुणो चउग्गुणो वा वि।
सयो वि होइ उवही, उव्वग्गहकरो महाणस्स ॥ ३९८९ ॥ 20 आलम्बनं द्विधा-द्रव्यतो गर्तादौ निमजतो रज्वादि, भावतः संसारगर्तायां निपततां ज्ञानादि । इह पुनर्यत्र क्षेत्रे काले वा दुर्लभं वस्त्रं तदादिकमालम्बनं गृह्यते, तत्र 'विशुद्धे प्रशस्ते सति द्विगुणो वा त्रिगुणो वा चतुर्गुणो वा औधिक औपग्रहिकश्वोपधिः सर्वोऽपि 'महाजनस्य' गच्छस्योपग्रहकरो भविष्यतीति कृत्वा गणचिन्तकस्य परिग्रहे भवतीति ॥३९८९॥ गतं प्रमाणद्वारम् , अथातिरिक्त-हीनद्वारमाह
25 पेहा-ऽपेहादोसा, भारो अहिकरणमेव अतिरित्ते ।
एए भवंति दोसा, कजविवत्ती य हीणम्मि ॥ ३९९० ॥ अतिरिक्तमुपधिं यदि प्रत्युपेक्षते तदा सूत्रा-ऽर्थयोर्महान् परिमन्थः, अथ न प्रत्युपेक्षते तत उपधिनिष्पन्नम् , एवं प्रेक्षा-ऽप्रेक्षयोरुभयोरपि दोषाः । भारश्च महान् मार्गे गच्छतां भवति । अपरिभोग्यस्य चोपधेर्धारणे अधिकरणम् । एतेऽतिरिक्ते दोषा भवन्ति । अथ 'हीनं' यथोक्त-30
१ एतदन्तर्गतमवतरणं भा० नास्ति ॥ २ "भिण्णं दबतो भावतो य । दबतो पमाणेणं गणणाए य। भावतो मुल्लबहुगं !” इति विशेषचूर्णौ ॥ ३१॥ एतदन्तर्गतः पाउ: भा० का० एव वर्तते ॥ ४एवमुभयथाऽपि दो भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org