SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृत्स्ना कुत्तप्रकृते सूत्रम् ८ तिविहम्मि कालछेए, तिविहा पडला उ होंति पायस्स । गिम्ह सिसिर - वासासुं, उक्कोसा मज्झिम जहन्ना || ३९७३ ॥ त्रिविधे 'कालच्छेदे' कालविभागे त्रिविधानि पटलकानि पात्रस्य भवन्ति । इदमेव व्याचष्टे - ग्रीष्म- शिशिर वर्षासु प्रत्येकमुत्कृष्टानि मध्यमानि जघन्यानि च । तत्र यानि अत्यन्त - 5 दृढानि तान्युत्कृष्टानि, दृढ- दुर्बलानि मध्यमानि, दुर्बलानि जघन्यानि ॥ ३९७३ ॥ इदमेव भावयति गिम्हासु तिनि पडला, चउरो हेमंतें पंच वासासु । उक्कोसगा उ एए, एत्तो वोच्छामि मज्झिमए ॥ ३९७४ ॥ 'ग्रीष्मेषु' चतुर्ष्वप्युष्णर्त्तुमासेषु त्रीणि पडलानि भवन्ति, कालस्यात्यन्तरूक्षतया त्वरित - 10 मेव पृथिवीरजः प्रभृतीनां परिणतेस्तैः पटलकानां भेदासम्भवात् । चत्वारि पटलकानि 'हेमन्ते' शीतकाले भवन्ति, कालस्य स्निग्धतया विमर्देन पृथिवीरजः प्रभृतीनां परिणतेः । पञ्च पटलकानि वर्षासु भवन्ति, कालस्यात्यन्तस्निग्धत्वात् । एतान्युत्कृष्टानि मन्तव्यानि । अत ऊर्द्ध मध्यमानि वक्ष्ये || ३९७४ ॥ प्रतिज्ञातमेवाह 15 20 १०९० गिम्हासुं होंति चउरो, पंच य हेमंतें छच्च वासासु । मज्झिमा खलु एए, एत्तो उ जहन्नए वोच्छं ॥ ३९७५ ॥ मेषु चत्वारि पटकानि, हेमन्ते पञ्च, वर्षासु षट्, मनाग् जीर्णतया प्रभूततराणामेव कार्यसाधनात् । एतानि खलु मध्यमकानि मन्तव्यानि । अत ऊर्द्ध जघन्यानि वक्ष्ये ॥३९७५ ॥ गिम्हासु पंच पडला, हेमंते छच्च सत्त वासासु । तिविहम्मि कालछेए, तिविहा पडला उ पायस्स ।। ३९७६ ॥ ग्रीष्मेषु पञ्च पटकानि, हेमन्ते षट्, वर्षासु सप्त । एतानि जघन्यानि । एवं त्रिविधे कालच्छेदे त्रिविधानि पटलकानि पात्रस्य भवन्ति ॥ ३९७६ ॥ उक्तं पटलकानां गणनाप्रमाणम्, अथ प्रमाणप्रमाणम् -तत्र च विशेषचूर्णि::-गच्छनिग्गयाणं चउरंसा पडला, जं भाणे मज्झे कए हेट्टा अट्ठ अंगुलाई लंबंति । गच्छवासीणं जं उग्गाहिए समाणे चउहिं अंगुलेहिं जन्नुए न पावति; अहवा दीहत्तणेण अड्डाइज्जा हत्था, 25 दत्तणेण दिवडो हत्थो || रजोहरणप्रमाणमाह मूले थिरं मज्झे, अग्गे मद्दवजुत्तया । [ ओ.नि.७०८]• एगंगियं अनुसिरं, पोरायामं तिपासियं ।। ३९७७ ॥ १ एतचिहान्तर्गतः पाठः भा० प्रतावेव वर्तते। कां० प्रतौ तु एतत्स्थाने कालस्यात्यन्त रुक्षस्वात् । 'हेमन्ते' शीतकाले चतुषु मासेषु चत्वारि, [ कालस्य स्निग्धत्वात् । वर्षासु पञ्च पटलकानि भवन्ति, ] इति कोष्टान्तर्गतगलित पाठरूपः पाठ उपलभ्यते । अन्यासु पुनः प्रतिषु सर्वथा पाठो गलत इति ॥ २° रो पडला, पंच ताभा० ॥ ३ "स्यहरणं गणणष्पमाणेण एवं गच्छणिग्गयाणं, गच्छवासीणं दो वासासु । पमाणप्पमाणेण समं दसियासु बत्तीसं अंगुलाई जस्स चउव्वीसं अंगुलाई दंडो तस्स अट्ठ अंगुलाई दसियाओ, जस्स पुण वीसं अंगुलाई दंडो तस्स बारसंगुला दसियाओ ।" इति विशेषचूर्णो ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy