SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३९६५-७२ ]. तृतीय उद्देशः । १०८९ टक एव स खपिति वा ध्यायति वा । तत्र प्रायेण धर्मजागरिकया जागर्त्ति परं केचिदाचार्या ब्रुवते --- उत्कुटक एव तृतीये यामे क्षणमात्रं स्वपितीति ॥ ३९६८ ॥ अथ गच्छवासिनां कल्पप्रमाणमाह कप्पा आयपमाणा, अड्डाइजा उ वित्थडा हत्था । [ ओ. नि. ७०६ ] एग्रं मज्झिम माणं, उक्कोसं होंति चत्तारि ।। ३९६९ ॥ 5 कल्पाः 'आत्मप्रमाणाः' सार्धहस्तत्रयप्रमाणायामाः, अर्धतृतीयांश्च हस्तान् 'विस्तृताः ' पृथुला विधेयाः, एतद् मध्यमं ' मानं' प्रमाणं भवति । उत्कर्षतो दैर्येण चत्वारो हस्ताः । एतदाशद्वयं मन्तव्यम् || ३९६९ || अत्रैव कारणमाह संकुचिय तरुण आयप्पमाण सुयणे न सीयसंफासो । दुओ पेल थेरे, अणुचिय पाणाइरक्खाऽऽया ।। ३९७० ।। 10 यो भिक्षुस्तरुणो बलवान् स सङ्कुचितपादः खप्तुं शक्नोति, तस्य तथा खपने शीतस्पर्शो न भवति, अतस्तस्य आत्मप्रमाणाः कल्पा अनुज्ञाताः । यस्तु स्थविरो वयसा वृद्धः स क्षीणबलत्वान्न शक्नोति सङ्कुचितपादः शयितुम्, अतस्तस्यानुग्रहार्थं दैर्येणात्मप्रमाणादूर्द्धं षडङ्गुलानि विस्तरतोऽप्यर्ध तृतीयहस्तप्रमाणादभ्यधिकानि षडङ्गुलानि विधीयन्ते । एवं विधीयमाने गुणमुपदर्शयति - "दुहओ पेल्लग" त्ति शिरः - पादान्तलक्षणयोर्द्वयोरपि पार्श्वयोर्यत् कल्पस्य 'प्रेरणम् ' 15 आक्रमणं तेन स्थविरस्य शीतं न भवति । 'अनुचितः ' अभावितः शैक्ष इत्यर्थः, तस्यापि स्वपनविधावनभिज्ञस्य कल्पप्रमाणमेवमेव ज्ञातव्यम् । अपि च एवं प्राणिनां रक्षा कृता भवति, न मण्डूकप्लुत्या कीटिकादयः प्राणिनः प्रविशन्तीति भावः, आदिशब्दाद् दीर्घजातीयादयोऽपि न प्रविशन्ति, तेनात्मनोऽपि रक्षा कृता भवति ॥ ३९७० ॥ अथ पात्र बन्धादीनां प्रमाणनिरूपणायाह- पत्ता बंधपमाणं, भाणपमाणेण होड़ कायव्वं । [ ओ.नि. ६९४] चउरंगुलं कर्मता, पत्ताबंधस्स कोणा उ ।। ३९७१ ॥ पात्र बन्धप्रमाणं भाजनप्रमाणेन कर्त्तव्यं भवति । यदि मध्यमं जघन्यं वा पात्रं भवति तदा पाकबन्धोऽपि तदनुसारेण करणीयः, अथोत्कृष्टप्रमाणं पात्रं तदा सोऽपि गुरुतरः कार्यः । किं बहुना ? यथा ग्रन्थौ कृते सति पात्रकबन्धस्य कोणाश्चतुरङ्गुलमूर्द्ध क्रामन्तो भवन्ति, प्रन्थे - 25 रतिरिक्ताश्चतुरङ्गुला अञ्चला यथा भवन्तीति भावः, तथा पात्रकबन्धप्रमाणं विधेयम् ॥ ३९७१ ॥ रयताणस्स पमाणं, भाणपमाणेण होति कायव्वं । पायाहिणं करितं, मज्झे चउरंगुलं कमति ।। ३९७२ ॥ रजस्त्राणस्य प्रमाणं भाजनप्रमाणेन कर्त्तव्यं भवति । कथम् ? इत्याह- प्रादक्षिण्येन वेष्टनं कुर्वत् पात्रस्य मध्ये 'चतुरङ्गुलं' चत्वार्यङ्गुलानि यथा रजस्त्राणमतिक्रामति तथा रजस्त्राणप्रमाणं 30 विधेयम् ॥ ३९७२ ॥ पटलकानां प्रमाणमाह १ भणितम् । उ° भा० ॥ २ क्खा य तामा• ॥ ३ " अणुयितत्ति अभावितस्स ति" इति चूर्णौ विशेषचूर्णौ च ॥ Jain Education International 20 For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy