________________
१०८८ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [कृत्स्नाकृत्स्नप्रकृते सूत्रम् ८
जिणा बारसरुवाई, थेरा चउदसरूविणो। [ओ.नि.६७२]
ओहेण उवहिमिच्छति, अओ उड़ उवग्गहो ॥ ३९६५ ।। 'जिनाः' जिनकल्पिका उपकरणानां द्वादशरूपाणि धारयन्तीति शेषः । स्थविरास्तु 'चतुदशरूपिणः' उपकरणचतुर्दशकधारिण इत्यर्थः । एवम् 'ओघेन' सामान्येनोपधिमिच्छन्ति तीर्थकराः, ओघोपधिमित्यर्थः । 'अत ऊर्द्धम्' अतिरिक्तो दण्डक-चिलिमिलिकादिः स्थविरकल्पिकानां सर्वोऽप्युपग्रहोपधिर्मन्तव्यः ॥ ३९६५ ॥ 4 अथ जिनकल्पिकानामुपधेरुत्कृष्टादिविभाग प्रमाणप्रमाणं चाह-»
चत्तारि य उक्कोसा, मज्झिमग-जहन्नगा वि चत्तारि ।
कप्पाणं तु पमाणं, संडासो दो य रयणीओ ॥ ३९६६ ॥ 10 जिनकल्पिकानां चत्वार्युपकरणान्युत्कृष्टानि भवन्ति, त्रयः कल्पाः प्रतिग्रहश्चेति । मध्यम
जघन्यान्यपि प्रत्येकं चत्वारि-तत्र पटलकानि रजस्त्राणं रजोहरणं पात्रकबन्धश्चेति मध्यमानि, मुखवस्त्रिका पात्रकेसरिका पात्रस्थापनं गोच्छकश्चेति जघन्यानि । एतेषां च ये कल्पास्तेषां 'सन्दंशकः' कुरण्टको द्वौ च 'रत्नी' हस्तौ दीर्घत्वेन प्रमाणं भवति, विस्तरतस्तु साध हस्तमेकम्
॥ ३९६६ ॥ अथवा15 अनो वि य आएसो, संडासो सथिए णुवन्ने य ।
जं खंडियं ददं तं, छम्मासे दुब्बलं इयरं ॥ ३९६७ ॥ 'भन्योऽपि च 'आदेशः' प्रकारोऽस्ति । कः ? इत्याह-सन्दंशः स्वस्तिकश्च । तत्र जिनकल्पिकस्योत्कटुकनिविष्टस्य जानुसन्दंशकादारभ्य पुतौ पृष्ठं च छादयित्वा स्कन्धोपरि यावता प्राप्यते एतावत् तदीयकल्पस्य दैर्घ्यप्रमाणम् , अयं च सन्दंशक उच्यते । तथा तस्यैव 20 कल्पस्य द्वावपि पृथुत्वकर्णी हस्ताभ्यां गृहीत्वा द्वे अपि बाहुशीर्षे यावत् प्राप्येते, तद्यथादक्षिणेन हस्तेन वामं बाहुशीर्ष वामेन दक्षिणम् , एष द्वयोरपि कलाचिकयोर्हृदये यो विन्यासविशेषः स खस्तिकाकार इति कृत्वा स्वस्तिक उच्यते, एतत् पृथुत्वप्रमाणमवसातव्यम् । "णुवन्ने य" तिं निपन्नः-त्वग्वर्तितस्तद्विषयं स्थविरकल्पिकानामादेशद्वयं तच्चाग्रे (गा० ३९६९) वक्ष्यते । जिनकल्पिकश्च यद् वस्त्रं 'खण्डितम्' एकस्मात् पार्श्वतश्छिन्नं प्रमाणयुक्तं च यदि 25 च तत् परिभुज्यमानं षण्मासान् यावद् ध्रियते तदीदृशं दृढमिति ज्ञात्वा गृह्णाति, 'इतरद् नाम' षण्मासानपि यावन्न निर्वाहक्षमं तद दुर्बलमिति कृत्वा न गृह्णाति ॥ ३९६७ ॥ अथ किमर्थमसौ खस्तिकं करोति ? इत्याह
संडासछिडेण हिमादि एति, गुत्ता वऽगुत्ता वि य तस्स सेजा।
हत्थेहि सो सोस्थिकडेहि घेत्तुं, वत्थस्स कोणे सुवई व झाती ॥ ३९६८ ॥ 30 'तस्य' जिनकल्पिकस्य शय्या 'गुप्ता वा' घनकुड्य-कपाटयुक्ता अगुप्ता वा भवेत् , अतः
सन्दंशकच्छिद्रेण 'हिमादिकं' शीत-वात-सादिकम् 'एति' आगच्छति, ततस्तस्य रक्षणार्थ 'स्वस्तिककृताभ्यां' स्वस्तिकाकारनिवेशिताभ्यां हस्ताभ्यां द्वावपि वस्त्रस्य कोणौ गृहीत्वा उत्कु
नास्त्येतदन्तर्गतमवतरणं भा० ॥२त्ति अनुपनः भा. बिना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org