________________
गष्यगाथाः ३९६१-६४] तृतीय उद्देशः ।
१०८७ वस्त्रे दोषा अभिधातव्याः । परिकर्मणं सीवनमित्येकोऽर्थः, तन्निरूपयितव्यम् । “विभूसणा य" त्ति विभूषार्थ यदि वस्त्रं क्षालयति वा रजति वा घर्षति वा सम्प्रमाटि वा तदा प्रायश्चित्तं भवतीति वक्तव्यम् । “मुच्छा य" त्ति मूर्च्छया यदि वस्त्रं न परिभुङ्क्ते तदाऽपि प्रायश्चित्तं वक्तव्यम् । तत्र प्रथमद्वारे तावदुपधेः प्रमाणं जिनकल्पिक-स्थविरकल्पिकानङ्गीकृत्य यथाक्रममहं वक्ष्ये ॥ ३९६१ ॥ प्रतिज्ञातमेव निर्वाहयितुं जिनकल्पिकानामुपधि गणनाप्रमाणतो निरूपयति
पत्तं पत्ताबंधो, पायढवणं च पायकेसरिया । [ओ.नि.६६९.नि. १३९३-९४] पडलाइँ रइत्ताणं, च गोच्छओ पायनिजोगो ॥ ३९६२ ॥ तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपोती । [ओ.नि.६७०]
एसो दुवालसविहो, उवही जिणकप्पियाणं तु ।। ३९६३ ॥ 'पात्रं' प्रतिग्रहः, 'पात्रबन्धः' येन वस्त्रखण्डेन चतुरस्रेण पात्रकं धार्यते, 'पात्रस्थापन' कम्ब-10 लमयं यत्र पात्रकं स्थाप्यते, 'पात्रकेसरिका' यया पात्रं प्रत्युपेक्ष्यते, 'पटलकानि' यानि भिक्षां पर्यटद्भिः पात्रोपरि स्थाप्यन्ते, 'रजस्त्राणं' पात्रवेष्टकम् , 'गोच्छकः' कम्बलमयो यः पात्रकोपरि दीयते । एष सप्तविधः 'पात्रनिर्योगः' पात्रपरिकरभूत उपकरणकलाप इत्यर्थः ॥ ३९६२ ॥ __ तथा—'त्रय एव' न चतुः-पञ्चप्रभृतयः, क एते ? इत्याह-'प्रच्छादकाः' प्रावरणरूपाः कल्पाः, द्वौ सौत्रिकावेकश्चोर्णामय इत्यर्थः । 'रजोहरणं' प्रतीतम् । 'चः' समुच्चये । एव-15 शब्दः पादपूरणे । 'मुखपोतिका' प्रसिद्धा । एष द्वादशविध उपधिर्जिनकल्पिकानां मन्तव्यः। तुशब्दो विशेषणे, स चैतद् विशिनष्टि-जिनकल्पिका द्विविधाः-पाणिपात्राः प्रतिग्रहधारिणश्च । पुनरेकैके द्विविधाः-अप्रावरणाः सप्रावरणाश्च । तत्राप्रावरणानां पाणिपात्राणां रजोहरण-मुखवस्त्रिकारूपो द्विविध उपधिः । सप्रावरणानां तु त्रिविधो वा चतुर्विधो वा पञ्चविधो वा-तत्र त्रिविधो रजोहरणं मुखवस्त्रिका एकः सौत्रिकः कल्पः, चतुर्विधः स एवौर्णिक- 20 कल्पसहितः, पञ्चविधश्चतुर्विध एव द्वितीयसौत्रिककल्पेन सहितः । प्रतिग्रहधारिणां प्रावरणवर्जितानां च नवविध उपधिः, तद्यथा-पात्रं १ पात्रकबन्धः २ पात्रस्थापनं ३ पात्रकेसरिका ४ पटलकानि ५ रजस्त्राणं ६ गोच्छकः ७ रजोहरणं ८ मुखवस्त्रिका ९ चेति । ये तु प्रावरणसहितास्तेषामत्रैव नवविधे एककल्पप्रक्षेपे दशविधः, कल्पद्वयप्रक्षेपे एकादर्शभेदः, कल्पत्रयप्रक्षेपे तु द्वादशविधः । तदेवमुत्कर्षतो जिनकल्पिकानां द्वादशविध उपधिः सम्भवति, एष 25 तुशब्दसूचितो विशेषार्थः । “एकग्रहणे तज्जातीयानां सर्वेषां ग्रहणम्" इति न्यायाद् अन्येऽपि ये गच्छनिर्गतास्तेषां यथायोगमिदमेवोपकरणप्रमाणमवसातव्यम् ॥ ३९६३ ॥ अथ स्थविरकल्पिकानङ्गीकृत्याह
एए चेव दुवालस, मसग अइरेग चोलपट्टो य । [ओ.नि.६७१]
एसो उ चउदसविहो, उवही पुण थेरकप्पम्मि ।। ३९६४ ॥ 30 'एत एव' अनन्तरोक्ता द्वादशोपधिभेदा अपरं चातिरिक्तं मात्रकं चोलपट्टकश्च, एष चतु. देशविध उपधिः स्थविरकल्पे भवति ।। ३९६४ ॥ अनन्तरोक्तमेवार्थमुपसंहरन्नाह---
१ क-स्थिरक' भा० ॥ २शविधः, कल्प का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org