________________
१०८६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृत्स्त्राकृत्स प्रकृते सूत्रम् ८
asar गृहीत्वाऽन्यत्र जति । सा च 'हीनोऽसौ ' इति नेच्छत्यमुमर्थम् । ततोऽश्वस्वामी भार्यावबोधाय वर्द्धकिसुतं दृष्टान्तीकरोति, यथा
1
केनापि वर्द्धकिना भागिनेयः स्वसुतां दत्त्वा गृहजामाता कृतः । स च कमपि व्यवसायं न करोति ततो वर्द्धकिदुहित्र्या प्रेरितः - किमिति पुरुषत्रतरहितः परदत्तमुपजीवेंस्तिष्ठसि ? 5 विधेहि किञ्चित् कर्मान्तरमिति । ततः कुठारं गृहीत्वा काष्ठकर्तनार्थमटवीं गतः । स्वाभिलषितकाष्ठप्रात्यभावाच्च प्रतिदिवसं रिक्त एव निवर्त्तते । षष्ठे च मासे लब्धं कृष्णचित्रककाष्ठम् । घटितस्तत्र कुलकः - कलसिका चतुर्थांशरूपो धान्यमानविशेषः । ततः प्रेषिता स्वभार्या 'द्रव्यलक्षण यो गृह्णाति तस्मै प्रदातव्यः' इत्युक्त्वा हट्टमार्गे विक्रयार्थम् । सा च तन्मूल्ये लक्षं याचमाना लोकैरुपहस्यते । समायातश्च तत्र कश्चिद् बुद्धिमान् वणिक्, परिभावितं च तेन 10 स्वचेतसि — नूनमत्र कारणेन भवितव्यम्, यदेवमियमस्य काष्ठस्य मूल्ये लक्षं याचते । ततो यावत् तेन धान्यं मिमीते तावन्न कथञ्चित् क्षीयते । अतो धान्याद्यक्षयनिमित्तं लक्षमपि दत्त्वा गृहीतस्तेन कुलकः । ततः प्रभृति तेन सलक्षणजामातृकेण गृहे धृतेन सर्वमपि बर्द्धकिकुटुम्बं धन-धान्यादिना वृद्धिमुपययौ ॥
तथा त्वमपि निजदुहितरं यद्यस्मै प्रयच्छसि ततोऽनेनास्मद्गृहे तिष्ठता समस्तलक्षणोपेतमइत्र15 द्वयमपि तिष्ठति । ततोऽश्वद्वयमाहात्म्येन च सर्वात सम्पदः करस्था एवास्माकं भवन्ति इत्यादि बहुविधमुक्त्वा दापिता तस्मै दुहिता ॥
अथ गाथाद्वयस्याक्षरार्थः - स्थायिन्यो नाम वडवास्ता उच्यन्ते या वर्षे वर्षे विजायन्ते । ताश्च वर्षमेकं कश्चिद् द्रमकः पालयति, उपलक्षणमिदम् तेनाश्वानपि पालयतीत्यादि द्रष्टव्यम् । कथं पालयति ? इत्याह- 'तस्य' अश्वाधिपतेः 'भागेन' वेतनभूताश्वद्वयलक्षणेन । 20 ततश्च तस्य तत्राश्ववडवं पालयतश्चेटिकया समं घटना । तया च स निकाचनां कारितः - एवंविधलक्षणोपेतमेवाश्वद्वयं ग्रहीतव्यं नान्यदिति । किं पुनस्तल्लक्षणम् ? इत्याह — उपविष्टे - ष्वश्वेषु द्रुममारुह्य चर्म कुतपस्य पाषाणभृतस्य भूमौ पातनेन - भेषणा कर्तव्या, यौन त्रस्तस्तौ लक्षणयुक्तौ । ततो भृतिकाले 'द्वयोरपि तयोः' सलक्षणयोरश्वयोरसौ ग्रहणं करोति । 'अलं मे परैरश्वैः, इदमेवाश्वद्वयं समर्पय' इत्येवम् 'आश्विकम् ' अश्वस्वामिनं भणति । स च 2: खभार्यावबोधाय 'वर्द्धकेः' रथकारस्य 'भच्चकः ' भागिनेयस्तस्य यद् वर्द्धकिना दुहितुः प्रदानं
ततः स्वभार्यया प्रेरितेन तेन कृष्णचित्रकाष्ठमानीय यत् कुलको घटितस्तेनोपलक्षितम् ' औपम्यं' दृष्टान्तं कृतवान् । एवं गच्छेsपि लक्षणयुक्तेनोपधिना ज्ञानादीनां वृद्धिरुपजायते । ततश्च स्थितमेतत् - विधिनैव तथा वस्त्रं छेदनीयं यथा प्रमाणयुक्तं भवति ॥ ३९५९ ॥ ३९६० ॥ अथ प्रमाणादिखरूपनिरूपणाय द्वारगाथामाह
30
दव्वपमाण अतिरेग हीण, परिकम्म विभूसणा य मुच्छा य । उवहिस्स य पमाणं, जिण थेर अहकमं वोच्छं ।। ३९६१ ।। इह द्रव्यं वस्त्रं तस्य प्रमाणं गणनया प्रमाणेन च द्विविधं वक्तव्यम् । अतिरिक्ते हीने वा
१
एतचितः पाठः भा० कां० एव वर्तते ॥ २ स्वकार्या' भा० कां विना ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org