________________
15
भाष्यगाथाः ३९५३-६०] तृतीय उद्देशः ।
१०८५ मातृकान्ते' उभयपावरूपे छिन्ने सति वस्त्रमलक्षणं भवति । मध्यस्फाटितमपि तदलक्षणमेवोपजायते । अलक्षणे च वस्त्रे प्रत्युत ज्ञानादीनामुपघातो भवति, न पुनः कोऽपि गुणः । अतो गुणबुद्ध्या यद् वस्त्रं गृहीतं सत् तमेव गुणं न करोति अलं 'तेन' वस्त्रेण, न तद् ग्रहीतुमुचितमिति भावः ॥ ३९५६ ॥ अथ भूयोऽपि परः प्रेरयति- .
किं लक्षणेण अम्हं, सव्वणियत्ताण पावविरयाणं ।
लक्खणमिच्छंति गिही, धण-धणे-कोसपरिवुड्डी ॥ ३९५७ ॥ अस्माकं सर्वस्माद्-धन-धान्यादिपरिग्रहाद् निवृत्तानां पापात्-प्राणातिपातादेर्विरतानां किं वसादिलक्षणेनान्वेषितेन ? न किञ्चिदित्यर्थः । ये तु गृहिणः सारम्भाः सपरिग्रहास्ते स धनधान्ध-कोशपरिवृद्धिनिमित्तं लक्षणमिच्छन्ति, अस्माकं तु » धन-धान्याद्यभावान्न किमपि वृद्धि प्रापणीयमस्तीति परस्याभिप्रायः ॥ ३९५७ ॥ सूरिराह
10 लक्खणहीणो उवही, उवहणती णाण-दंसण-चरित्ते ।
तम्हा लक्खणजुत्तो, गच्छे दमएण दिटुंतो ॥ ३९५८ ॥ लक्षणः-प्रशस्तवर्ण-संस्थानादिभिहीन उपधिः साधूनां ज्ञान-दर्शन-चारित्राण्युपहन्ति, तस्माद् लक्षणयुक्तोऽसौ धारयितव्यः । तेन हि धार्यमाणेन गच्छे महती ज्ञानादिस्फातिरुपजायते । तथा चात्र द्रमकेण दृष्टान्तः क्रियते ॥ ३९५८ ॥ तमेवाह
थाइणि वलवा वरिसं, दमओ पालेति तस्स भाएणं । चेडीघडण निकायण, उविट्ठ दुम चम्म भेसणया ॥ ३९५९ ॥ दुण्ह वि तेसिं गहणं, अलं मि अस्सेहि अस्सिगं भणइ ।
वड्डइ भच्चइ धूयापयाण कुलएण ओवम्मं ॥ ३९६०॥ इह पारस विषये कस्य चिद् गृहे प्रभूताः प्रतिवर्षप्रसविन्यो वडवाः सन्ति । तत एव च 20 तुरङ्गमा अपि तस्य बहवः समजायन्त । तेन चाश्वखामिना 'एतावदश्वसमूहमध्ये त्वया वर्षान्ते अश्वद्वयं भृतौ ग्राह्यम्' इत्युक्त्वा कश्चिद् द्रमकोऽश्व-वडवारक्षणार्थं धृतः । तस्य च तत्पुच्या सार्धं सङ्गतिरभूत् । भृतिकाले च समायाते तेनाश्वरक्षकेण सा तहुहिता पृष्टा-कथय, अमीषां मध्ये किमपि लक्षणयुक्तमश्वद्वयं येन तद् गृह्णामि । ततस्तयाऽभिहितोऽसौ-सर्वेध्वश्वेष्वरण्ये वृक्षच्छायायां विश्रब्धमुपविष्टेषु चर्ममयं कुतपं पाषाणखण्डानां भृत्वा वृक्षशिखर-25 'मारुह्य ततः स चर्मकुतपः खडक्खडारवं कुर्वन्नधस्ताद् मोक्तव्यः, पटहश्च तदग्रतो वादनीयः, एवंकृते यौ न समुत्रस्यतः; तथा खुरुखुरकेण चर्ममयेण पाषाणखण्डभृतेन पृष्ठतो वाद्यमानेन सर्वानपि वाहय, यौ शेषाश्ववाहनिकातोऽधिकं निर्वहतः तौ द्वावपि गृहाणेति । तेन सर्व तथैव कृतम् । मूल्यकाले च तेनाश्वखामी याचितः-ममामुकममुकं चाश्वं देहि । तुरङ्गम. खामी तु 'समस्तलक्षणयुक्ताविमावश्वौ' इति कृत्वा ब्रवीति-शेषान् द्वौ त्रीन् सर्वान् वा ३० गृहाण, किमेताभ्यां करिष्यसि ? । सोऽपि तदश्वद्वयवर्जमपरं कथमपि नेच्छति । ततश्चाश्वखामिना स्वभार्याऽभिहिता---प्रदीयतामस्मै स्वपुत्रिका येन गृहजामातृत्वं प्रतिपन्नो न सलक्षणा१°न्ते' प्रागुक्तखरूपे भा० ॥२ एतदन्तर्गतः पाठः भा० का• एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org