________________
१०८४
सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ कृत्स्नाकृत्मप्रकृते सूत्रम् ८ मातृका चान्तश्च मातृकान्तम् , द्वन्द्वैकवद्भावः, तस्मिन् भिन्ने सति वस्त्रं यद्यपि स्तेनैरपहियेत तथापि तैर्गृहीते सति नाधिकरणं भवति, उभयपार्श्वयोश्छिन्नत्वेन परिभोगाभावादित्यभिप्रायः । एवं केचिदाचार्यदेशीया भणन्ति तेषामेवं वदतां प्रतिषेधः कर्तव्यः । कथम् ? इत्याह-'एवम्! अमुना प्रकारेण 'खुः' अवधृतार्थे, अवधारितोऽयमर्थः, परमेवं भिद्यमानं वस्त्रमलक्षणं भवति । 5 भूयोऽपि परः प्राह-यद्येवं तत ऊर्द्ध कृत्वा तद् वस्त्रं द्विधा छिद्यताम् । सूरिराह-एवमप्यलक्षणदोषाश्चापरे बहवो भवन्ति, अतो नैवं छेदनीयमिति सङ्ग्रहगाथासमासार्थः ॥ ३९५२ ।। अथैनामेव विवृणोति--
उभओ पासिं छिजउ, मा दसिया उकिरिज एगत्तो।
अहिकरणं णेवं खलु, उद्घो फालो व मज्झम्मि ॥ ३९५३ ॥ 10 परः प्राह-उभयपार्श्वयोर्वस्त्रं छिद्यताम् । किं कारणम् ? इति चेद् अत आहयद्येकपार्वतश्छिद्यते तदा कदाचित् स्तेनैरपहियेत, ततस्ते तत्रैकतरिछन्ने दशिका उत्किरेयुः, उत्कीर्य च तद् वस्त्रं विक्रीणन्तः सदशाकतया प्रेभूतं मूल्यं प्राप्नुयुः, स्वयं वा तत् परिभुञ्जीरन् , ततो द्वयोरपि पार्श्वयोश्छेदनीयम् , एवं विधीयमानेऽधिकरणं न भवति । अथ नै
भवतां विचारचर्यायां सङ्गच्छते ततो मध्ये गृहीत्वोर्द्धः फालो विधीयताम् , उर्दू द्विधा फाल्य18 तामिति भावः ।। ३९५३ ॥ अथ सूरिः प्रथमं परोक्तमाद्यप्रकारं दूषयन्नाह...
भन्नइ दुहतो छिन्ने, उभतो दसियाइँ किण्ण जायंति ।
कुप्पासए करेंति व, अदसाणि व किं ण भुंजंति ॥ ३९५४ ॥ भण्यते अत्रोत्तरम् - त्वदुक्तनीत्या द्विधा छिन्ने वस्त्रे किमुत्कीर्यमाणा उभयतो दशिका न जायन्ते ? जायन्त एव । अथवा तेनोभयतश्छिन्नेन वाससा ते स्तेनाः 'कूर्पासकान्' र कञ्च20 कान् । कुर्वन्ति । अथवा ते किमदशाकानि वस्त्राणि न भुञ्जते ? येनैवमुच्यते-उभयत. श्छेत्तव्यमिति ॥ ३९५४ ॥ अथ द्वितीयं प्रकारमङ्गीकृत्य परिहरन्नाह
उद्धप्फालाणि करेंति अणिहुआ दुब्बलं च तं होति ।
कजं तं च ण पुस्सति, असिव्व-सिव्वंतदोसा य ॥ ३९५५ ॥ इँह 'अनिभृता नाम' त्रिदण्डिनः, त एव प्राय ऊर्द्ध फालानि वस्त्राणि वसितुं प्रावरीतुं वा 25 कुर्वन्ति नान्ये । तथा 'तद्' ऊर्द्धफालितं वस्त्रं दुर्बलं भवति । दुर्बलत्वादेव च 'तद्' विवक्षितं __ 'कार्य' प्रावरणादिकं 'न पुष्यति' न पूरयति, परिभुज्यमानमचिरादेव स्फटतीति भावः । स्फटितं
च यदि न सीव्यते ततो बहुतरं स्फटति, ततश्च वस्त्राभावे ये तृणग्रहणादयो दोषास्तान् प्राप्नुवन्ति । अथ सीव्यते ततः सूत्रा-ऽर्थपरिमन्थादयो दोषाः ॥ ३९५५ ॥ अपि च
छिन्नम्मि माउगते, अलक्षणं मज्झफालियं चेव ।
गुणबुद्धा जं गहियं, न करेति गुणं अलं तेणं ॥ ३९५६ ॥ १ उद्धो वा दो व म° ताभा० ॥ २१ एतचिह्नान्तर्गतः पाठः भा० का० एव वर्त्तते । “कुप्पा. सओ कंचुगो" इति चूर्णी विशेषचूर्णौ च ॥ ३ °जं च तं ण ताभा० ॥ ४ इह ये 'अनिभृताः' पिड्डाः, त एव भा० । “अणिहुता हिंडिया, वादिया इत्यर्थः ।" इति चूर्णों विशेषचूर्णौ च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org