________________
१०८३
15
भाष्यगाथाः ३९५६-५२] तृतीय उद्देशः । ख्यातभागवृद्ध्या सङ्ख्यातभागवृध्या सङ्ख्यातगुणवैया असङ्ख्यातगुणधुंध्या अनन्तगुणवृद्ध्या वा भवन्ति, एवं कीलिकादिष्वपि । यतः षट्स्थानपतिताः प्राणिनोऽतो देहबलवैचित्र्येण परिणामवैचित्र्यात् कर्मबन्धोऽपि विचित्रो भवतीति स्थितम् ।। ३९४८ ।। बलद्वारमेव प्रकारान्तरेण व्याचष्टे
अहवा बालादीयं, तिविहं विरियं समासतो होति ।
बंधविसेसो तिण्ह वि, पंडिय बंधी अबंधी य ॥ ३९४९ ॥ अथवा वीर्य बालादिभेदात् त्रिविधम् । तत्र बालस्य-असंयतस्य प्राणातिपाताद्यसंयमकरणे यद् वीर्य तद् बालवीर्यम् , बालपण्डितस्य-देशविरतस्य संयमा- संयमविषयं वीर्य बालपण्डितवीर्यम् , पण्डितस्य-सर्वविरतस्य सर्वसंयमविषयं वीर्यं पण्डितवीर्यम् । एतत् त्रिविधं वीर्य समासतो भवति । एषां त्रयाणामपि बन्धविशेषः, तद्यथा--बालवीर्यवान् प्रभूततरं कर्म 10 बनाति, बालपण्डितवीर्यवान् । अल्पतरम् , पण्डितवीर्यवान् » अल्पतमम् । स च पण्डितो द्विधा—बन्धी अवन्धी च । प्रमादादीनां कर्मबन्धहेतूनां कापि कियतां सद्भावादवश्यं बनातीति बन्धी, "णिन् चावश्यकाधमण्यें" (सि० हे० ५-४-३६) इति णिन्प्रत्ययः, तद्विपरीतो अबन्धी । तत्र प्रमत्तसंयतमादौ कृत्वा सयोगिकेवलिनं यावद् बन्धकः, अयोगिकेवली तु नियमादबन्धकः ॥ ३९४९ ॥ गतं वीर्यद्वारम् । अथोपसंहरन्नाह
तम्हा ण सव्वजीवा, उ बंधगा णेव बंधणा तुल्ला ।
अधिकिच्च संपरागं, इरियावहिबंधगा तुल्ला ॥ ३९५० ॥ यत एवं तस्मान्न सर्वेऽपि जीवा बन्धकाः । येऽपि बन्धकास्तेषामपि 'साम्परायं' कषायप्रत्ययं कर्माधिकृत्य बन्धनं नैव तुल्यम् , रागादिवैचित्र्यतः कर्मबन्धविशेषस्यानन्तरमेव प्रसाधितत्वात् । ये तूपशान्तमोह-क्षीणमोह-सयोगिकेवलिन ऐर्यापथस्य-योगमात्रप्रत्ययस्य कर्मणो 20 बन्धकास्ते परस्परं तुल्याः, एकस्यैव सातवेदनीयस्य द्विसमयस्थितिकस्य सर्वेषामपि बन्धनात् । तदेवं न योगप्रत्ययः कर्मबन्धस्याल्पबहुत्वविशेषः, किन्तु रागादितीव्र-मन्दताप्रत्ययः, ततो वरच्छेदनं विधिना कुर्वतां न कश्चिद् दोषः ॥ ३९५० ॥ अपि च
संजमहेऊ जोगो, पउजमाणो अदोसवं होइ।।
जह आरोग्गणिमित्तं, गंडच्छेदो व विजस्स ॥ ३९५१ ॥ संयमः-प्रत्युपेक्षणादिशुद्धिरूपस्तद्धेतुः 'योगः' वस्त्रच्छेदनादिव्यापारः प्रयुज्यमानोऽदोषवान् भवति । यथा 'आरोग्यनिमित्तं' रोगिणो रोगव्यपगमार्थ वैद्यस्य गण्डच्छेदोऽदुष्ट इति ॥३९५१॥ परः प्राह-यद्येवं ततो यथाऽहं भणामि तथा वनं छिद्यताम् । कथम् ? इति चेद् उच्यते
भिन्मम्मि माउगंतस्मि केइ अहिकरण गहिय पडिसेहो । एवं खु भिञ्जमाणं, अलक्खणं होइ उहुं च ॥३९५२॥
30 इह वस्त्रं यतो व्यूयते तदादिभूतत्वाद् मातृकेव मातृका, अन्तश्चेह दशान्त उच्यते, १-२-३-४-५ °वृद्धाः भा० कां ॥६एतन्मध्यगतः पाठः भा० का ० एव वर्तते ॥ ७ यतो वातुमारभ्यते तदा भा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org