SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १०८२ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृत्स्नाकृत्स्रप्रकृते सूत्रम् ८ पर्शु-नखच्छेदनादिषु वस्तुषु कार्यमाणेषु क्रियमाणेषु च 'परिणामविशेष:' सक्लिष्टा ऽसङ्कक्लिष्टरूपमध्यवसायवैचित्र्यं सञ्जायते, यथा -- कारयाम्यहमिदं पर्शु - कुन्त- कणकादिकम्, ततोऽनेन वैरिणं व्यापाद्य आत्मनः सुखमुत्पादयिष्यामीत्यादि । अतस्तत्त्वतः परिणामवैचित्र्यप्रत्यय एवात्रापि कर्मबन्धविशेष इति न किञ्चिदनुपपन्नम् || ३९४५ ॥ 5 उक्तं निर्वर्त्तनाधिकरणम् । अथ संयोजनाधिकरणमाह संजोययते कूड, हलं पडं ओसहे य अण्णोणे । भोयविहिं च अण्णे, तत्थ वि णाणत्तगं बहुहा ॥। ३९४६ ॥ कश्चिद् लुब्धको मृगादीनां बन्धनाय कूटं रज्यादिना संयोजयति, अपरो हालिकादिः क्षेत्र कर्षणाय हलं युगादिना योजयति, अन्यस्तु पटं पटान्तरेण सह सीवनप्रयोगेण संयुनक्ति, 10 कश्चित्तु वैद्यादिः 'औषधानि ' हरीतकी - पिप्पलीप्रभृतीन्यन्यान्यानि परस्परमेकत्र मीलयति, अन्यस्तु 'भोजनविधिं' शालि - दालि - घृत- शालनकादिकं संयुनक्ति, तत्रापि कर्मबन्ध विशेषस्य बहुधा नानात्वं प्रतिपत्तव्यम् । तथाहि - यः कूटं संयोजयति तस्य सक्लिष्ट परिणामतया तीव्र - तरः कर्मबन्धः, तदपेक्षया हलं संयोजयतः खल्पतरः पटं संयोजयतः खल्पतम इत्यादि खबुद्ध्या सम्यगुपयुज्य वक्तव्यम् || ३९४६ ॥ 15 अथ निर्वर्त्तना-संयोजने द्वे अपि यत्र सम्भवतः तान्युपदर्शयति निव्वत्तणा य संजोयणा य सगडाइएस अ भवंति । आसजुत्तरकरणं, निव्वत्ती मूलकरणं तु ।। ३९४७ ॥ निर्वर्त्तना च संयोजना च शकटादिषु द्वे अपि भवतः । तथाहि — शकटाङ्गानाम् - उद्धिचक्रप्रभृतीनां या प्रथमतो घटना सा निर्वर्त्तना, या पुनस्तेषामेव निर्वर्त्तितानामेकत्र सङ्घातना 20 सा संयोजना । अत्र च ' उत्तरकरणं' संयोजनारूपामुत्तरक्रियाम् ' आसाद्य' प्रतीत्य 'निर्वृत्तिः ' प्रथमतो निर्वर्त्तना मूलकरणं प्रतिपत्तव्यम् || ३९४७ ॥ गतमधिकरणद्वारम् । अथ वीर्यद्वारमाह 25 यद् ‘देहबलं' संहननजनितं शरीरसामर्थ्यं तत् खलु वीर्यं मन्तव्यम् । तस्य च बलस्य सदृश एव प्राणिनां परिणामो भवति । तथाहि- - यः सेवार्त्तसंहननी जघन्यबलो जीवस्तस्य परिणामोऽपि शुभोऽशुभो वा मन्द एव भवति न तीत्रः, ततः शुभाशुभकर्मबन्धोऽपि तस्य स्वल्पतर एव, अत एवास्योर्द्धगतौ कल्पचतुष्टयादूर्द्धम् अधोगतौ नरकपृथ्वीद्वयादध उपपातो न भवतीति प्रवचने प्रतिपाद्यते । एवं कीलिकादिसंहननिष्वपि भावना कार्या । १० इदं च देहवीर्यम् ‘आसाद्य' प्राप्य षट्स्थानगताः 'सर्वतः ' सर्वेष्वपि संहननेषु प्राणिनः परस्परं भवन्ति । तथाहि — सेवार्त्तसंहननिषु ये सर्वजघन्यबलास्तदपेक्षया अपरेऽनन्तभागवृद्ध्या अस देहवलं खलु विरियं, बलसरिसो चैव होति परिणामो । आज देहविरियं, छट्टाणगया तु सव्वत्तो ।। ३९४८ ॥ १ विही उ अ तामा० ॥ २ उताभा० ॥ ३ कां विनाऽन्यत्र - हवम् मो० ले० ताटी त० ई० | 'इबलम् भा० ॥ ४ 'वृद्धाः अ० भा० कौ० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy