SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३९३७-४५] तृतीय उद्देशः । १०८१ एमेव ओवसमिए. खओवसमिए तहेव खहए य । बंधा-ऽबंधविसेसो, ण तुलवंधा य जे बंधी ।। ३९४१ ॥ एवमेवौपशमिके क्षायोपशमिके तथैव क्षायिके च भावे बन्धा-ऽबन्धविशेषः सम्यगुपयुज्य वक्तव्यः । येऽपि 'बन्धिनः' कर्मबन्धका जीवास्तेऽपि न तुल्यबन्धकाः, किन्तु प्रकृति-स्थित्यनुभाव-प्रदेशैः परस्परविसदृशकर्मबन्धकाः ॥ ३९४१ ॥ अथाधिकरणद्वारमाह-- अहिकरणं पुन्धुत्तं, चउविहं तं समासओ दुविहं । णिव्यत्तणताए वा, संजोगे चेवणेगविधं ॥ ३९४२ ॥ अधिकरणं पूर्व-प्रथमोद्देशके यथा निर्वर्तना-निक्षेपणा-संयोजना-निसर्जनाभेदात् चतुर्विध मुक्तं तथैव ज्ञातव्यम् । नवरं 'तद्' अधिकरणं समासतो द्विविधं भवति । तद्यथा-निर्वर्तनायां 'संयोगे चैव' संयोजनायां च । पुनरेकैकमनेकविधं भवति ॥ ३९४२ ॥ 10 तत्र निर्वर्तनाधिकरणमनेकविधमुपदर्शयति एगो करेति परसुं, णिव्यत्तेति णखछेदणं अवरो । - कुंत-कणगे य वेज्झे, आरिय सूई अ अवरो उ ॥ ३९४३ ॥ 'एकः' लोहकारः 'पर्यु' कुठारं करोति । अपरस्तु नखच्छेदनम् , तथा कुन्तः-प्रतीतः, कणकः-बाणविशेषः, तो, चकारादपराण्यपि शक्ति-शूलप्रभृतीनि 'वेधकानि' परशरीरवेधका-18 रीणि शस्त्राणि करोति । अपरस्तु लोहंकार आरिकां सूची वा करोति । तत्र यः कुठार-कुन्तकणकादीनि करोति स तीव्रकर्मबन्धभाक्, यस्तु नखच्छेदना-ऽऽरिका-सूच्यादि निर्वर्त्तयति स खल्पकर्मबन्धक इति ॥ ३९४३ ॥ सईसुं पि विसेसो, कारणसूईसु सिव्वणीसुं च । . संगामिय परियाणिय, एमेव य जाणमादीसु ॥ ३९४४ ॥ सूचीष्वपि विशेषो विद्यते-एकाः कारणसूच्योऽपराः सीवनसूच्यः । तत्र याः परव्यपरोपणादिकारणमुद्दिश्य कारयित्वा परस्य नखमूलादौ कुट्यन्ते ताः कारणसूच्य उच्यन्ते, तासु विधीयमानासु महान् कर्मबन्धो भवति । यास्तु वस्त्रसीवनाथ क्रियन्ते तासु खल्पतरः कर्मबन्धः । एवमेव च यानादिप्वपि वक्तव्यम् । तथाहि-किमपि यानं सानामिकं भवति, यत्रारूढैः सङ्ग्रामः क्रियते; अपरं तु 'पारियानिकं' परियानं-गमनं तत् प्रयोजनमस्येति पारियानिकम् , 25. उद्यानादौ यस्मिन्नारूढैर्गम्यते । तत्र साभामिकयानादीनि कुर्वतो महान् कर्मबन्धः, पारियानि. कानि तु कुर्वाणस्याल्पतरः ॥ ३९४४ ॥ __ आह यदि नाम अधिकरणमनेकविधम् ततस्तन्निमित्तः कर्मबन्धविशेषः कथमुपपद्यते ! यावता परिणामवैचित्र्यप्रत्यय एवासाविष्यत इत्याह कारग-करेंतगाणं, अधिकरणं चेव तं तहा कुणति । . जह परिणामविसेसो, संजायति तेसु वत्थूसु ॥ ३९४५॥ कारापक-कुर्वतोस्तदधिकरणमेव 'तथा' तेन रूपेण 'करोति' बुद्धिमुपजनयति यथा 'तेषु' १°कम्, प्रामान्तरादौ उद्या भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy