________________
१०८०
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ कृत्स्ना कृत्स्लप कृते सूत्रम् ८
हिंसादिफलविपाके व्यापाद्ये वा जीवे जीवतया ज्ञाते हिंसां करोति, अपरस्तु न जानाति परमेवमेव जन्तून् हिनस्ति । तथा भावः -- औदयिकादिः, अधिकरण-निर्वर्त्तनादिरूप प्रागुक्तम्, 'वीर्यं' देहबलं बाल - पण्डितादिसामर्थ्यं वा । एवं तीत्र-मन्दादिकं नानात्वं यथा रांगादिषु दृश्यते तथा कर्मबन्धेऽपि नानात्वं जानीहि इति द्वारगाथा समासार्थः ॥ ३९३६ ॥ अथैनामेव विवरीषुराह—
5
तिब्वेहि होति तिव्वो, रागादीएहि उवचओ कम्मे ।
मंदेह होति मंदो, मज्झिमपरिणामतो मज्झो || ३९३७ ॥
पापं विदधानस्य यदि 'तीत्राः ' सङ्किष्टपरिणामा रागादयो भवन्ति ततस्तैस्तीत्रः कर्मणापचयो भवति । यदा तु त एव मन्दाः - प्रतनुपरिणामाः तदा कर्मोपचयोऽपि मन्दो भवति । 10 यदा तेषां मध्यमः परिणामः - नातितीव्रो न चातिमन्द इत्यर्थः तदा मध्यमः कर्मोपचयो भवति ॥ ३९३७ ॥ अथ ज्ञाताज्ञातद्वारमाह -
जाणं करेति एक्को, हिंसमजाणमपरो अविरतो य ।
तत्थ वि बंधविसेसो, महंतरं देसितो समए ।। ३९३८ ॥
FE द्वावविरतौ, तत्रैकस्तयोजनन् हिंसां करोति, विचिन्त्येत्यर्थः ; अपरः पुनरजानन् । 15 ' तत्रापि' तयोरपि बन्धविशेषः "महंतरं" ति महता अन्तरेण देशितः 'समये' सिद्धान्ते । तथाहि — यो जानन् जीवहिंसां करोति स तीव्रानुभावं बहुतरं पापकर्मोपचिनोति, इतरस्तु (मन्दतरविपाकमल्पतरं तदेवोपादत्ते ।। ३९३८ ॥
विरतो पुण जो जाणं, कुणति अजाणं व अप्पमत्तो वा ।
तत्थ वि अज्झत्थसमा, संजायति णिज्जरा ण चयो ।। ३९३९ ॥ 20 यः पुनः 'विरतः ' प्राणातिपाता देर्निवृत्तः सः 'जानानोऽपि ' सदोषमित्यवबुध्यमानोऽपि गीतार्थतया द्रव्य-क्षेत्राद्यागाढेषु प्रलम्बादिग्रहणेन हिंसां करोति, यद्वा न जानाति परम् 'अप्रमत्तः ' विकथादिप्रमादरहित उपयुक्तः सन् यत् कदाचित् प्राण्युपघातं करोति तत्रापि 'अध्यात्मसमा ' चित्तप्रणिधानतुल्या निर्जरा सञ्जायते, यस्य यादृशस्तीत्रो मन्दो मध्यमो वा शुभाध्यवसायस्तस्य तादृश्येव कर्मनिर्जरा भवतीति भावः । " न चउ" त्ति न पुनः 'चयः' कर्मबन्धः सूक्ष्मोऽपि 25 भवति, प्रथमस्य भगवदाज्ञया यतनया प्रवर्त्तमानत्वात्, द्वितीयस्य तु प्रमादरहितस्याजानतः कथञ्चिद् प्राण्युपघातसम्भवेऽप्यदुष्टत्वात् ॥ ३९३९ ॥ अथ भावद्वारमाह
एगो खओवसमिए, वट्टति भावेऽवरो उ ओदइए ।
तत्थ वि बंधविसेसो, संजायति भावणाणत्ता ।। ३९४० ॥ 'एकः' कोऽपि क्षायोपशमिके भावे वर्तते, अपरश्चौदयिके, तत्रापि बन्धविशेषः सञ्जायते, 30 भावनानात्वात् । तथाहि—य औदयिके भावे वर्तते स तीव्रतरं कर्मोपचिनोति, यस्तु क्षायोपशमिके स मन्दतरमिति ॥ ३९४० ॥
१ महत्तरं भा० तांभा० । एतदनुसारेणैव भा० टीका । दश्यतां टिप्पणी २ ॥ २ 'बः 'महत्तरः ' अतिशयेन महान् देशितः भा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org