________________
भाष्यगाथाः ३९२९-३६] तृतीय उद्देशः ।।
१०७९ 'अपि' इत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः, यदेवं 'योगवन्तं' वस्त्रच्छेदनादिव्यापारवन्तं जीवं हिंसकं त्वं भाषसे तद् निश्चीयते सम्यक् सिद्धान्तमजानान एवं प्रलपसि । नहि सिद्धान्ते योगमात्रप्रत्ययादेव हिंसोपवर्ण्यते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररूप्यते ? इत्याह--द्रव्येण भावेन च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वे भवन्ति । तथाहि-द्रव्यतो नामैका हिंसा न । भावतः १ भावतो नामैका हिंसा न द्रव्यतः २ एका द्रव्यतोऽपि भावतोऽपि ३ एका न द्रव्यतो नापि भावतः ४ ॥ ३९३२ ॥ अथैषामेव यथाक्रमं भावनां कुर्वन्नाह----
आहच्च हिंसा समितस्स जा तू, सा दव्यतो होति ण भावतो उ । भावेण हिंसा तु असंजतस्सा, जे वा वि सत्ते ण सदा वधेति ॥ ३९३३ ॥ संपत्ति तस्सेव जदा भविजा, सा दयहिंसा खलु भावतो य ।
10 अज्झत्थसुद्धस्स जदा ण होजा, वधेण जोगो दुहतो वहिंसा ॥ ३९३४॥ 'समितस्य ईर्यासमितावुपयुक्तस्य या “आहच्च" कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा, इयं च प्रमादयोगाभावात् तत्त्वतोऽहिंसैव मन्तव्या, "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" (तत्त्वा० अ० ७ सू० ८) इति वचनात् ; न भावत इति । 'भावेन भावतो या हिंसा न तु द्रव्यतः सा 'असंयतस्य' प्राणातिपातादेरनिवृत्तस्य उपलक्षणत्वात् संयतस्य वा 15 अनुपयुक्तगमना-ऽऽगमनादि कुर्वतो यानपि सत्त्वानसौ सदैव न हन्ति तानप्याश्रित्य मन्तव्या, "जे वि न वाविजंती, नियमा तेसि पि हिंसओ सो उ" (ओघ नि० गा० ७५३) इति वचनात् ।। ३९३३ ॥ __यदा तु तस्यैव प्राणिव्यपरोपणसम्प्राप्तिर्भवति तदा सा द्रव्यतो भावतोऽपि हिंसा प्रतिपत्तव्या । यः पुनरध्यात्मना-चेतःप्रणिधानेन शुद्धः-उपयुक्तगमना-ऽऽगमनादिक्रियाकारीत्यर्थः 20 तस्य यदा 'वधेन' प्राणिव्यपरोपणेन सह 'योगः' सम्बन्धो न भवति तदा 'द्विधाऽपि' द्रव्यतो भावतोऽपि च अहिंसा, हिंसा न भवतीति भावः । तदेवं भगवत्प्रणीते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवर्ण्यन्ते । अत्र चाद्यभङ्गे हिंसायां व्याप्रियमाणकाययोगोऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः । ततो यदुक्तं भवता---'वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति तत् प्रवचनरहस्यानभिज्ञतासूचकमिति ॥ ३९३४ ॥ किञ्च
रागो य दोसो य तहेव मोहो, ते बंधहेतू तु तओ वि जाणे।
णाणत्तगं तेसि जधा य होति, जाणाहि बंधस्स तहा विसेसं ॥ ३९३५ ॥ 'रागश्च' अभिष्वङ्गलक्षणः 'द्वेषश्च' अप्रीतिकरूपः तथैव 'मोहः' अज्ञानलक्षणः, एतान् त्रीनपि बन्धहेतून् जानीहि । 'नानात्वं' विशेषो यथा 'तेषां' रागादीनां भवति तथा कर्मबन्धस्यापि विशेष जानीहि ॥ ३९३५ ॥ इदमेव बिभावयिषुरिगाथामाह
30 तिव्वे मंदे णातमणाए भावाधिकरण विरिए य ।
जह दीसति णाणत्तं, तह जाणसु कम्मबंधे वि ॥ ३९३६ ॥ हिंसादिकं पापं कुर्वतो रागादिपरिणामस्तीत्रो वा भवेद् मन्दो वा । "नायमनाए" ति एको
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org