SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १०७८ सनियुक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [कृत्लाकृमप्रकृते सूत्रम् ८ ततश्चास्माभिरप्येवं वक्तुं शक्यम्-योऽयं वस्त्रच्छेदनसमुत्थः शब्दः स निर्दोषः, शब्दत्वात् , भवत्परिकल्पितनिर्दोषशब्दवदिति ॥ ३९२८ ॥ किञ्च तं छिंदओ होज सतिं तु दोसो, खोभादि तं चैव जतो करेति । जं पेहतो होंति दिणे दिणे तु, संपाउणंते य णिबुज्झा ते वी ॥ ३९२९ ॥ । यतः तदेव' वस्त्रं छिद्यमानं पुद्गलानां क्षोभादि करोति अतः 'तद' वस्त्रं छिन्दतः 'सकृद' एकवारं दोषो भवेत् । अच्छिद्यमाने तु वस्त्रे प्रमाणातिरिक्तं तत् प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः प्रत्युपेक्षणादोषा दिने दिने भवन्ति, ये च तद् वस्त्रं सम्प्रावृण्वतो विभूषादयो बहवो दोषाः, तानपि 'निबुध्यस्ख' अक्षिणी निमील्य सम्यग् निरूपयेति भावः ॥ ३९२९ ॥ ___ आह-यदि वस्त्रच्छेदने युष्मन्मतेनापि सकृद् दोषः सम्भवति ततः परिहियतामसौ, 10गृहस्थैः खयोगेनैव यद् भिन्नं वस्त्रं तदेव गृह्यताम् , उच्यते घेत्तव्वगं भिन्नमहिच्छितं ते, जा मग्गते हाणि सुतादि ताव । अप्पेस दोसो गुणभूतिजुत्तो, पमाणमेवं तु जतो करिति ॥ ३९३० ।। अथ 'ते' तव 'इष्टं मतं यथा चिरमपि गवेष्य भिन्नं ग्रहीतव्यम् तत उच्यते-यावत् तद् भिन्नं वस्त्रं मार्गयति तावत् तस्य 'श्रुतादौ' सूत्रा-ऽर्थपौरुष्यादौ हानिर्भवति । अपि च य 15 एष वस्त्रच्छेदनलक्षणो दोषः स प्रत्युपेक्षणाशुद्धि-विभूषापरिहारप्रभृतीनां गुणानां भूत्या-सम्पदा युक्तः, बहुगुणकलित इति भावः । कुतः ? इत्याह-यतः प्रमाणमेव वस्त्रस्य तदानीं साधवः कुर्वन्ति, न पुनस्तत्राधिकं किमपि सूत्रा-ऽर्थव्याघातादिकं दूषणमस्तीति ॥ ३९३० ।। अथ "जा यावि चिट्ठा इरियाइयाओ" (३९२५) इत्यादि परोक्तं परिहरन्नाह आहार-णीहारविहीसु जोगो, सव्यो अदोसाय जहा जतस्स । 20 हियाय सस्सम्मि व सस्सियस्स, भंडस्स एवं परिकम्मणं तु ॥ ३९३१ ॥ - यथा 'यतस्य' प्रयत्नपरस्य साधोराहार-नीहारादिविधिविषयः सर्वोऽपि योगो भवन्मतेनाप्यदोषाय भवति तथा 'भाण्डस्य' उपकरणस्य 'परिकर्मणमपि' छेदनादिकम् 'एवमेव' यतनया क्रियमाणं निर्दोष द्रष्टव्यम् । दृष्टान्तमाह-"हियाय सस्सम्मि व सस्सियस्स" ति सस्येन चरतीति सास्थिका-कृषीवलस्तस्य यथा सस्यविषयं परिकर्मण-निद्दिणनादिकं हिताय भवति 2 तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तम् यद्वत् सस्यहितार्थ, सस्याकीर्णेऽपि विचरतः क्षेत्रे । या भवति सस्यपीडा, यत्नवतः साऽल्पदोषाय ॥ तद्वज्जीवहितार्थ, जीवाकीर्णेऽपि विचरतो लोके । या भवति जीवपीडा, यत्नवतः साऽल्पदोषाय ॥ ॥ ३९३१ ॥ 30 किच्च अप्पेव सिद्धतमजाणमाणो, तं हिंसगं भाससि जोगवंतं । दव्वेण भावेण य संविभत्ता, चत्तारि भंगा खलु हिंसगत्ते ॥ ३९३२ ॥ १°पावणं° तामा० भा. कां. विना ॥ २°णं-लवनादिकं भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy