________________
भाष्यगाथाः ३९२१-२८] तृतीय उद्देशः ।
१०७७ अधेत्थं भणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेया इति, नैवम् , यतः
जा यावि चिट्ठा इरियाइआओ, संपस्सहेताहिं विणा न देहो। संचिट्ठए नेवमछिञ्जमाणे, वत्थम्मि संजायइ देहनासो ॥ ३९२५ ॥ याश्चापि चेष्टा ईर्यादिकाः सम्पश्यत, तोरणमीर्या-भिक्षा-संज्ञाभूम्यादौ गमनम् , आदिशब्दाद् भोजन-शयनादयो गृह्यन्ते, एताभिर्विना देहः पौद्गलिकत्वात् 'न सन्तिष्ठते' न निर्व-5 हति, देहमन्तरेण च संयमस्यापि व्यवच्छेदः प्राप्नोति, वस्त्रे पुनरच्छिद्यमाने नैवं देहनाशः सञ्जायते, अतो न तत् छेदनीयम् ॥ ३९२५ ॥ किञ्च
जहा जहा अप्पतरो से जोगो, तहा तहा अप्पतरो से बंधो। निरुद्धजोगिस्स व से ण होति, अछिद्दपोतस्स व अंबुणाधे ॥३९२६ ॥ यथा यथा “से" तस्य जीवस्याल्पतरो योगस्तथा तथा "से" तस्याल्पतरो बन्धो भवति । यो वा निरुद्धयोगी-शैलेश्यवस्थायां सर्वथा मनो-वाकायव्यापारविरहितः तस्य सः' कर्मबन्धो न भवति । दृष्टान्तमाह-अच्छिद्रपोतस्येव 'अम्बुनाथे' समुद्रे । यथा किल निश्छिद्रप्रवहणं -सलिलसञ्चयसम्पूर्णेऽपि जलधौ वर्तमानं खल्पमपि जलं नाश्रवति, एवं निरुद्धयोग्यपि जन्तुः कर्मवर्गणापुद्गलैरञ्जनचूर्णपूर्णसमुद्गकवद् निरन्तरनिचितेऽपि लोके वर्तमानः खल्पीयोऽपि कर्म नोपादत्ते । अतः कर्मबन्धस्य योगान्वय-व्यतिरेकानुविधायितया तत्परिजिहीर्षणा वस्त्रच्छेद-15 नादिव्यापारो न विधेयः ॥ ३९२६ ॥ इत्थं परेण खपक्षे स्थापिते सति सूरिराह
आरंभमिट्ठो जति आसवाय, गुत्तीय सेआय तधा तु साधू।।
मा फंद वारेहि व छिज्जमाणं, पतिण्णहाणी व अतोऽण्णहा ते ॥ ३९२७ ॥ "आरंभमिट्ठो” त्ति मकारोऽलाक्षणिकः, हे नोदक ! यद्यारम्भस्तव 'आश्रवाय' कर्मोपादानाय 'इष्टः' अभिप्रेतः 'गुप्तिश्च' तत्परिहाररूपा 'श्रेयसे' कर्मानुपादानायाभिप्रेता, तथा च सति हे 20 साधो ! मा स्पन्द मा वा वस्त्रं छिद्यमानं वारय । किमुक्तं भवति ?-यदि वस्त्रच्छेदनमारम्भतया भवता कर्मबन्धनिबन्धनमभ्युपगम्यते ततो येयं वस्त्रच्छेदनप्रतिषेधाय हस्तस्पन्दनादिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुच्चार्यते तावप्यारम्भतया भवता न कर्त्तव्यौ । 'अतः' मदुक्तादुपदेशादन्यथा चेत् करोषि ततस्ते 'प्रतिज्ञाहानिः' खवचनविरोधलक्षणं दूषणमापद्यते इत्यर्थः ॥ ३९२७ ॥ अथ ब्रवीथाः-योऽयं मया वस्त्रच्छेदनप्रतिषेधको ध्वनिरुच्चार्यते स 25 आरम्भप्रतिषेधकत्वान्निर्दोष इति अत्रोच्यते--
अदोसवं ते जति एस सद्दो, अण्णो वि कम्हा ण भवे अदोसो ।
अघिच्छया तुज्झ सदोस एको, एवं सती कस्स भवे न सिद्धी ॥ ३९२८ ॥ यद्येष त्वदीयः शब्दोऽदोषवान् ततः 'अन्योऽपि वस्त्रच्छेदनादिसमुत्थः शब्दः कस्माददोषो न भवेत् ? तस्यापि प्रमाणातिरिक्तपरिभोग-विभूषादिदोषपरिहारहेतुत्वात् । अथ 'इच्छया' 30 खाभिप्रायेण तव 'एकः' वस्त्रच्छेदनशब्दः सदोषः अपरस्तु निर्दोषः एवं सति कस्खन खपक्षसिद्धिर्भवेत् ? सर्वस्यापि वागाडम्बरमात्रेण भवत इव खाभिप्रेतार्थसिद्धिर्भवेदिति भावः । १°स चओ ण तामा० ॥ २ वा गादं वचनमाने भा० का• विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org