________________
१०९१
भाष्यगाथाः ३९७३-८२] तृतीय उद्देशः ।
'मूले' हस्तग्रहणप्रदेशे रजोहरणं 'धनं' निबिडवेष्टितम् , 'मध्ये' मध्यभागे 'स्थिर' दृढम् , 'अग्रे' दशिकापर्यन्ते 'मार्दवयुक्तता' दशिका मृदुस्पर्शा विधेया इत्यर्थः । 'एकानिकं नाम' तज्जातदशिकं न वा व्यादिखण्डनिष्पन्नम् , 'अशुषिरं' न रोमबहुलं न वा ग्रन्थिलम् , “पोरायाम" ति पर्वायाम अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावदपान्तरालं तावत्पमाणायामम् , "तिपासियं" ति त्रिभिर्दवरकवेष्टकैः पाशितं-बद्धम् , एवंविधं रजोहरणं कर्त्तव्यम् ॥३९७७॥ । इदमेव स्पष्टतरमाह
अप्पोल्लं मिदुपम्हं च, पडिपुग्नं हत्थपूरिमं ।
तिपरियल्लमणीसहूं, रयहरणं धारए मुणी ॥ ३९७८ ॥ 'अप्पोल्लं' दृढवेष्टनादशुषिरमशुषिरदण्डं वा, तथा मृदूनि-कोमलानि पक्ष्माणि-दशिकारोमाग्रभागरूपाणि यस्य तद् मृदुपक्ष्मकम् , 'प्रतिपूर्ण' बाह्येन निषद्याद्वयेन युक्तं सद् 'हस्तपू-10 रिमं' यथा हस्तं पूरयति तथा कर्त्तव्यमित्यर्थः, 'त्रिपरिवर्त' त्रीन् वारान् वेष्टनीयम् , 'अनिसृष्टं नाम' हस्तप्रमाणादवग्रहादस्फेटितम् , एवंविधं रजोहरणं मुनिर्धारयेत् ॥ ३९७८ ॥
उन्नियं उट्टियं चेव, कंबलं पायपुंछणं । [आ.नि.७१०]
रयणीपमाणमित्तं, कुजा पोरपरिग्गरं ॥ ३९७९ ॥ 'और्णिकम्' ऊर्णामयं 'औष्ट्रिकं वा' उष्ट्ररोममयं यत् कम्बलं तत् ‘पादप्रोञ्छनं' रजोहरणं 15 कर्तव्यम् । 'रनिप्रमाणमात्रं' हस्तप्रमाणायामदण्डकं 'पर्वपरिग्रहम्' अङ्गुष्ठपर्वलमप्रदेशिनीशुपिरपूरकम् एवंविधं रजोहरणं कुर्यात् ॥ ३९७९ ।। 1 औपंग्रहिकोपधिविशेषभूतानां संस्तारकादीनां प्रमाणमाह-~
संथारुत्तरपट्टा, अड्डाइजा उ आयया हत्थे ।
तेसि विक्खंभो पुण, हत्थं चतुरंगुलं चेव ।। ३९८० ॥ संस्तारकोत्तरपट्टकावर्धतृतीयान् हस्तान् 'आयतौ' दीर्यौ भवतः, तयोः 'विष्कम्भः' विस्तारः पुनरेकं हस्तं चतुरङ्गुलं च भवति, चतुर्भिरङ्गुलैरधिको हस्त इत्यर्थः ॥ ३९८० ॥
दुगुणो चतुग्गुणो वा, हत्थो चतुरंसों चोलपट्टो उ। ___एगगुणा उ निसेजा, हत्थपमाणा सपच्छाया ॥ ३९८१ ॥ द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्रो भवति तथा चोलपट्टकः कर्त्तव्यः । 25 तत्र द्विगुणः स्थविराणाम् , चतुर्गुणस्तरुणानाम् । तथा रजोहरणपट्टस्यौर्णिकी निषद्या 'एकगुणा' गुणनया एकत्वसङ्ख्यायुक्ता प्रमाणेन च हस्तप्रमाणा 'सपच्छादका' तावत्प्रमाणयैव सौत्रिकया प्रच्छादकनिषद्यया सहिता भवति ॥ ३९८१ ॥ खवस्त्रिकाप्रमाणमाह-~
चउरंगुलं विहत्थी, एयं मुहणंतगस्स उ पमाणं । [ओ.नि.७१२]
वितियं पि य पमाणं, मुहप्पमाणेण कायव्वं ॥ ३९८२ ॥ 30 'चतुरङ्गुलं' चत्वार्यङ्गुलानि वितस्तिश्चैका एतद् 'मुखानन्तकस्य' मुखवस्त्रिकायाः प्रमाणम् । १°ङ्गलिप मो० ले० ॥ २ » एतदवतरणं भा० नास्ति ॥ ३ हत्थायामा सप' तामा०॥ ४ - एतचिह्नमध्यगतमवतरणं भा० नास्ति ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org