________________
१०७४
कृत्स्नान्यपि वस्त्राणि धारयेत ॥ ३९१२ ॥ कुतः ? इत्याहआइनता ण चोरादी, भयं व य गावो । उज्झाइवत्थवं चेव, सिंधूमादीसु गरहितो || ३९१३ ।।
"
"
नेपालादौ देशे सर्वलोकेनापि तादृग्वस्त्राणामाचीर्णता, न च तत्र चौरादिभयम् नैव च 5‘गौरवम्' ‘अहो ! अहमीदृशानि वस्त्राणि प्रावृणोमि' इत्येक्लक्षणम् अपि च उज्झाइतं - विरूपं यद् वस्त्रं तद्वान् सिन्धुसौवीरकादिषु गर्हितो भवति, अतस्तत्र कृत्स्नान्यपि परिभोक्तव्यानि ॥ ३९१३ ॥ अथ कालकृत्स्नमपवदति -
10
सनिर्युक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [ कृत्स्ना कृत्स्नप्रकृते सूत्रम् ८
नीलकंबलमादी तु, उष्णियं होति अंच्चियं ।
सिसिरे तं पिधारेजा, सीतं नऽण्णेण रुब्भति ॥ ३९१४ ॥ नीलकम्बलादिकमौर्णिकं महाराष्ट्रविषये 'अर्चितं' महार्घ्यं भवति, तदपि तत्र प्राप्तः 'शिशिरे' शीतकाले 'धारयेत्' प्रावृणुयादित्यर्थः, शीतं यतो नान्येन वस्त्रेण निरुध्यते ॥ ३९१४ ॥ अथ तद्भावितपदं व्याख्याति --
20
15
'खरैः' स्थूलतया कठिनस्पर्शेश्चीवरै राजादिप्रत्रजितः कश्चिद् निद्रां न लभते, तानि च तस्य दिवसतोऽप्यरतिं कुर्वन्ति, "उज्झाइयं वा ” जुगुप्सां मन्यते तैः, ततः स्थूलैयवदद्याप्यभावितस्तावत् तस्य भावकृत्स्नवस्त्रमनुज्ञातम् ॥ ३९१५ ॥
'अवमादिषु गच्छोपग्रहार्थम्' इति भावयति
न लभइ खरेहिं निदं, अरतिं च करिंति से दिवसतो वि । उज्झागं व मण्णति, धूलेहिँ अभावितो जाव || ३९१५ ।।
ओमा- सिव-दुट्ठेस, सीमट्ठेऊण तं असंथरणे ।
गच्छो नित्थारिञ्जति, जाव पुणो होति संथरणं ॥ ३९१६ ॥ मौदर्या शिवराजद्विष्टेषु भक्त पानालाभे गच्छस्यासंस्तरणं भवेत्, ततः शतसहस्रमूल्यं वस्त्रं “सीमट्टेऊण” चि चूर्णिकारवचनाद् विक्रीय गच्छो निस्तार्थते यावत् पुनरपि संस्तरणं भवति । विशेषचूर्णौ तु – “सीमट्ठेऊण" इत्यस्य स्थाने " उवक्कमट्ठा व" ति पाठः, तत्रोपक्रमः– कालगमनं तदर्थम् । किमुक्तं भवति ? — कस्यापि साधोरतर्कितं कालगमनं भवेत् 25 तस्याच्छादनार्थं 'भावकृत्स्नं' वर्णाढ्यं वस्त्रं प्रागेव ग्रहीतव्यम् ॥ ३९१६ ॥
-
अथवा द्रव्यकृत्स्नं भावकृत्स्नं चेति द्विविधमेवेह कृत्स्नम् । कथम् ? इति चेद् उच्यतेमाहियं साधिय, एताइँ पडंति दव्वकसिणम्मि ।
तस्सेव य जो वण्णो, मुल्लं च गुणो य तं भावे ॥। ३९१७ ।।
क्षेत्रकृत्स्ने कालकृत्स्ने च यद् 'मानाधिकं' यथोक्तप्रमाणातिरिक्तम्, यच्च 'दशाधिकं' सदशाकं 36 वस्त्रम्, एते द्वे अपि द्रव्यकृत्स्ने निपततः । यस्तु तस्यैव वस्त्रस्य 'वर्णः ' कृष्णत्वादिकः, यच्च 'मूल्यम् ' अष्टादशरूपकादि, यश्च 'गुण:' मृदुत्वादिः, तदेतत् सर्वमपि भावकृत्स्नेऽवतरति ॥ ३९१७ ॥
कृत्स्नाकृत्स्नवस्त्रप्रकृतं समाप्तम् ॥
Jain Education International
१°रयेयुः त० डे० ॥ २ अचियं तामा० ॥ ३°लैर्यद्यद्याप्य मा० ॥ ४°णं स्यात् । क्वचित्तु - "सी भा० ॥
For Private & Personal Use Only
www.jainelibrary.org